Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 226
________________ २०६ मुहूर्तचिंतामणौ राशिः स चेहितीयो नवमः पंचमः एकादशसंख्यो दशमश्च स्यात्तदासौ ग्रामः स्वस्य शुभः स्यात् । अन्यथा न शुभ इत्यर्थः । यथा नीलकंठराशेश्चिकाख्यात्पंचमो मीनराशिश्चरणाद्रेरतश्चरणाद्रिनीलकंठस्य वासयोग्यः । अत्र नामराशिरेव ग्राह्यः । काकिण्यां वर्गशद्धौ च वादे यते स्वरोदये । मंत्रे पुनर्भवरणे नामराशेः प्रधानतेति । अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह । स्वंवर्गमिति वर्गास्तु । अकचटतपयशवर्गाः खगेशमार्जरसिंहशुनाम् । सर्पाखुमृगावीनां निजपंचमवैरिणामष्टौ इत्युक्ताः। तत्र यस्य पुंसो यत्संख्याको वर्गो गरुडादिस्तद्वर्गसंख्यां द्विगुणां विधाय परस्य ग्रामादेर्वर्गसंख्ययान्यां च कृत्वा गजैरष्टभिः शेषितमवशिष्टं ताः पुंसः काकिण्यो ज्ञेयाः एवंग्रामादेरपि वर्गसंख्यां द्विगुणां कृत्वा परस्य पुंसो वर्गसंख्ययान्यां कृत्वा गर्भजेदवशिष्टाः ग्रामस्य काकिण्यो भवंति। एवमनयोः पुरुषग्रामयोः काकिणीनां विवराद्यस्याधिका अवशिष्यते सोऽर्थदः परस्य लाभदः । यथा नीलकंठस्य वर्गः सर्पः तत्संख्या ५ द्विगुणा १० चरणाद्रिवर्गः सिंहः ३ तत्संख्यया युक्ता १३ गजभक्तावशेषं ५ नीलकंठस्य काकिण्यः एवं ग्रामवर्गसंख्या ३ द्विगुणा ६ नीलकंठवर्ग ५ संख्यया युक्ताः ११ अष्टभक्ता शेषं ३ ग्रामस्य काकिण्यः द्वयोरंतरशेषं २ नीलकंठस्याधिकत्वेन दातृत्वाद्रव्यहानिरित्यर्थः । उक्तं च । वं वर्ग द्विगुणीकृत्य परवगैण योजयेत् । अष्टभिस्तु हरेद्भागं योऽधिकः स ऋणी भवेदिति । अथ द्वारवेशनमाह अथेति द्विजादिराशीनां पुंसां क्रमेण पूर्वतः प्राच्यादिदिक्चतुष्टये द्वारं हितम् । यथा । द्विजराशीनां कर्कवृश्चिकमीनानां पूर्वदिशि वैश्यराशीनां दृषकन्यामकराणां दक्षिणदिशि शूद्रराशीनां मिथुनतुलाकुंभानां पश्चिमदिशि नृपराशीनां मेषसिंहधनुषां उत्तरदिशि द्वारं हितम् ॥ १ ॥ अथ राशिपरत्वेन ग्रामविवासे निषिद्धस्थानानि वसंततिलकयाह गोसिंहनक्रमिथुनं निवसेन्न मध्ये ग्रामस्य पूर्वककुभोऽलिझषांगनाश्च ॥ कर्को धनुस्तुलभमेषघटाश्च तद्वद्वर्गाः स्वपंचमपरा बलिनः स्युरेंद्रयाः॥२॥ गोसिंहेति ॥ वस्तुमिष्टस्य ग्रामस्य वस्त्रविभागवन्नवधा विभागं कृत्वा मध्ये विभागे गोसिंहनक्रमिथुनं न निवसेत् षसिंहमकरमिथुनराशिमंतः पुरुषा न वसेयुः। अथ पूर्वककुभः पूर्वदिशातोऽष्टदिक्षु अलिदृश्चिकः तदादिराशिमंतः पुरुषा न वसेयुः । यथा । पूर्वस्यां वृश्चिकः आग्नेय्यां झषो मीनः दक्षिणस्यां कन्या नैर्ऋत्यां कर्कः पश्चिमायां धनुः वायव्यां तुला उत्तरस्यां मेषः ईशान्यां कुंभः न वसेदित्यर्थः । यथा । अवर्गः पूर्वस्याम् कवर्ग आनेय्याम् चवर्गों दक्षिणस्याम् टवर्गों नैर्ऋत्यात् तवर्गः पश्चिमायाम् पवर्गों वायव्याम् यवर्ग उत्तरस्याम् शवर्ग ईशान्याम् बली इत्यर्थः । कीदृशा वर्गाः स्वपंचमपराः स्वस्मात्पंचमः Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248