________________
. १९८
मुहूर्तचिंतामणौ अन्यदपि शालिन्याहदुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पंचरात्रं च पूर्वम् ॥ क्षौद्रं तैलं वासरेऽस्मिन्वमिश्च त्याज्यं यत्नामिपालेन नूनम् ॥१६॥
दुग्धमिति ॥ यात्रादिनात्पूर्वं भूमिपालेन राज्ञोपलक्षणत्वात् गमनका यत्नात् दुग्धं पेयत्वेन त्रिदिनं त्याज्यम् । न तु द्रव्यत्वेन तद्विकारः पायसं च निषिद्धम् । च पुनः पंचरात्रं पूर्व क्षौरं क्षुरसंबंधि कृत्यं मुंडनं श्मश्रुकर्म च त्याज्यम् । अस्मिन्वासरे यात्रादिने क्षौद्रं मधु भक्ष्यत्वेन तैलें तैललापनं त्याज्यम् । वमिश्चेदेवोद्भूता शरीरशोधनार्थ बलात्कारकृता वा यात्रादिने निषिद्धा ॥ ९६ ॥ अन्यदपि गीत्याह
भुक्त्वा गच्छति यदि चेत्तैलगुडक्षारपकमांसानि ॥ विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥९७॥ भुक्त्वोत ॥ यदि तैलपक्वानि वटकादीनि गुडमिक्षविकारम् क्षारं सलवणम् पक्वमांसानि यो भुक्का गच्छति स राजातिरुग्णो रोगसहितो विनिवर्तते । गर्गः । कटुतैलगुडक्षारं पक्वमांसाशनं तथा । भुक्त्वा यो यात्यसौ मोहाद्व्याधितः सन्निवर्तत इति । मांसदुग्धादिनिषेधो दोहदव्यतिरिक्तविषयः । स्त्रीद्विजमिति स्त्री च द्विजश्च तयोः समाहारः स्त्रीद्विजं अवमान्य धिक्शब्दताडनादिना मानभंगं कृत्वा गच्छतः पुंसो मरणं स्यात् । गर्गः । यस्तु संप्रस्थितो यात्रां भार्या नैवाभिनंदति । भार्या वा नाभिनंदेत न स प्रतिनिवर्तते ॥ परकीयां स्वकीयां वा स्त्रियं पुरुषमेव च । ताडयित्वा तु यो मोहात्तदंतं तस्य जीवितम् ॥ यात्रायां प्रस्थितो यस्तु ब्राह्मणानवमानयेत् । नासौ प्रतिनिवर्तत तदंतं तस्य जीवितम् ॥ केचिच्छुभाशुभशब्दान्यात्राकाले शुभाशुभसूचकानाहुः । लल्लः । प्रापय गच्छ विसर्जय निर्गच्छ व्रज सरेति सिद्धिकराः । खल्वेतेष्वप्यधिका प्रमोदजयजीवशब्दाश्च ॥ मागास्तिष्ठ निवर्तय क्क गम्यते मूढ दुर्मते मोहात् । यात्रां नेच्छंति बुधाः शुतकासितभीतशब्दैश्चेति । कासितं रोगातध्वनिर्हिक्कादिः ॥ ९७ ॥ ___ अथाकालदृष्टयाख्यदोषं वसंतमालिकयाहयदि माःसु चतुषु पौषमासादिषु वृष्टिहिं भवेदकालवृष्टिः॥ पशुमर्त्यपदांकिता न यावदसुधा स्यान्न हि तावदेव दोषः ॥९८॥ ___ यदीति ॥ पौषमाधफाल्गुनचैत्रेषु चतुर्पु मासेषु यदि दृष्टिर्भवेत्साऽकालवृष्टिः । पौपादिचतुरो मासान् प्राप्ता वृष्टिरकालजेति वचनात् । तत्राकालवृष्टयां जातायां यदि वसुधा पृथ्वी यावत् पशवो गवादयः मा मनुष्यास्तेषां पदैश्चरणैरङ्किता चिह्निता न भवति तावदकालवृष्टेर्दोषो नास्ति यदि पशुचरणांकिता स्यात्तदा दोषोऽस्त्येव । अत्र प्राच्या अल्पवृष्टौ
Aho! Shrutgyanam