________________
यात्राप्रकरणम् ।
१९९ कर्दमादिबाहुल्यात् अत्यल्पावृष्टिर्दोषाय न महतीति वदंति तत्र बहुवृष्टया कर्दमापाकरणात् तन्न । सितादौ मार्गशीर्षस्य प्रतिपदिवसे तथा । पूर्वाषाढागते चंद्रे गर्भाणां धारणं भवेदिति कश्यपोक्तर्मार्गादिमासा गर्भग्रहणकालस्तत्र वृष्टिरावश्यकी । यदाह वराहः । पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः स भवति बहुतोयः पंचरूपस्तु मेघ इति ॥ ततश्च गर्भग्रहणयोग्या अल्पा वृष्टिर्न दोषदा महती वृष्टिस्तु गर्भगलनम् । यतो वराहेणोक्तम् । गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निमित्तकृतेति । निमित्तं शुक्रास्तादिकम् सा गर्भगलनरूपा विकृतिः विद्युतोपचीयमाना महांतं दोषमुपजनयति । एतावता महारष्टरेव दोषवत्त्वम् । अत एव । भृशं क्षरंतो जलदा न शस्ता इति बृहद्यात्रायामुक्तम् । तस्मादत्यल्पायामकालदृष्टौ दोषाभावः । अल्पायां त्वल्पदोषः महत्यां तु महादोष इति । स च सप्तरात्रिक इत्युक्तं प्राक् । एकेनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीयेन तु पंचाहं दशरात्रमतः परम् ॥ पौषे तु त्रिदिनं वय माघमासे दिनद्वयम् । फाल्गुमे दिनमेकं तु चैत्रे तु घटिकाद्वयमिति तु आवश्यककार्यविषयम् ॥ ९८ ॥
पूर्वोक्तमेवार्थ स्पष्टीकुर्वन्नावश्यकयात्रायां तच्छांतिकं दुष्टशकुनशांतिकं चातिशकर्या गाथाछंदसाह
अल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान् जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः॥ सूर्यद्रोबिंबे सौवर्णे कृत्वा विप्रेभ्यो दयाहुःशाकुन्ये साज्यं स्वर्ण दत्वा गच्छेत्स्वेच्छाभिः॥९९॥ अल्पायामिति ॥ स्पष्टार्थ प्रथममर्धम् । अतो यत्प्राच्याः पठति । तावत्प्रयाणादिषु भूपतीनामकालवृष्टिः प्रकरोति दोषम् । यावद्भवेत्संचरतां जनानां तथा पशूनां चरणांकिता भूरिति तन्निमूलत्वादुपेक्ष्यम् । स्वयं प्रस्थाने सति मागेमध्ये नास्त्ययं दोषः । आवश्यकयात्रायां दानमाह जीमूतानामिति । जीमूतानां मेघानां निर्घोष शब्दे अकालवृष्टौ वा जातायां सूर्येद्वोर्यथाशक्त्या सौवणे सुवर्णनिर्मिते बिंबे कृत्वा भूपो राजा ब्राह्मणेभ्यो दद्यातत्तः खेच्छया गच्छेत् । प्रसंगाढुष्टशकुनानां दानमाह । दुःशाकुन्य इति ॥ शकुनस्य भावः शाकुन्यं दुष्टं च तच्छाकुन्यं च दुःशाकुन्यं तस्मिन्दुष्टे शकुने प्रस्थानकाले संभूते सति साज्यं सघृतं स्वर्ण विप्रेभ्यो दत्वा खेच्छाभिर्गच्छेत् ।। ९९ ॥ अथ शुभसूचकान् शकुनाच शार्दूलविक्रीडितेनाहविप्राश्वेभफलान्नदुग्धदधिगोसिद्धार्थपद्मांबरं वेश्यावाद्यमयूरचाषनकुला बढेकपश्वामिषम् ॥
Aho ! Shrutgyanam