SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०० मुहूर्तचिंतामणौ सद्वाक्यं कुसुमेापूर्णकलशच्छत्राणि मृत्कन्यका रत्नोष्णीषसितोक्षमद्यससुतस्त्रीदीप्तवैश्वानराः ॥१०॥ विप्राश्वेति ॥ विप्रा बहवो द्वौ वा न त्वेकः अश्वः प्रसिद्धः इभो हस्ती अनुन्मत्तः फलान्नदुग्धदधीनि प्रसिद्धानि गौः धेनुः सिद्धार्थः सर्षपः पद्मं कमलं अंबरं वस्त्रं स्वच्छं वेश्या गणिका वाद्यं मर्दलादि मयूरचाषौ पक्षिणौ नकुलः प्रसिद्धः बढेकपशुः रज्ज्वादिबद्धो वृषादिः आमिषं मांसम् सहाक्यं कार्यसिद्धिरस्त्वित्याकिदं कुसुमानि चंपकादीनि इक्षुः प्रसिद्धः सकलः न तु खंडितः जलपूर्णकलशः संमुखः छत्रं प्रसिद्धम् मृत्तिका कन्या कुमारी रत्नं माणिक्यादि उष्णीषं शिरोवेष्टनम् सितोऽक्षः श्वेतवृषः अयमबद्धोऽपि मद्यं प्रसिद्धम् ससुतस्त्री सपुत्रा स्त्री दीप्तो जाज्वल्यमानोऽनिरिति ॥ १० ॥ अन्यच्छार्दूलविक्रीडितेनाह आदीजनधौतवस्त्ररजका मीनाज्यसिंहासनं शावं रोदनवर्जितं ध्वजमधुच्छागास्त्रगोरोचनम् ॥ भारद्वाजनृयानवेनिनदा मांगल्यगीतांकुशा दृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः॥१०१॥ आदीजनेति ॥ आदशों दर्पणं अंजनं कज्जलम् धौतवस्त्र उज्ज्वलीकृतवस्त्रो रजकः वस्त्रनिऎक्ता मीनो मत्स्यः आज्यं घृतं सिंहासनं देवादेः शवमेव शावं मृतकं पृष्ठगामिलोकरोदनरहितम् ध्वजः पताका मधु क्षौद्रम् छागो मेषः अस्त्रं धनुरादि गोरोचनं प्रसिद्धम् भारद्वाजः पक्षी नृयानं सुखासनादि वेदनिनादो वेदध्वनिः मांगल्यं प्रसिद्ध गीतं गानम् अंकुशो हस्तिनिवारणार्थमस्त्रम् एते पदार्थाः गंतुर्भूपतेः प्रयाणसमये संमुखं दृश्यमानाः सत्फलदाः शुभफलदाः। तथा रिक्तो जलरहितो घटः कुंभः स्वानुगः स्वस्य पश्चाद्भागगामी सोऽपि शुभफलदः । कश्यपः । कार्यसिद्धिर्भवेदृष्टे शवे रोदनवर्जिते । प्रवेशे रोदनयुतः शवः स्यादशिवप्रदः ॥ वसंतराजः । आदाय रिक्तं कलशं जलार्थी यदि व्रजेकोऽपि सहाध्वगेन । पूर्ण समादाय निवर्ततेऽसौ यथा कृतार्थः पथिकस्तथैवेति । अथ कैश्चिल्लग्नवशेन शकुना उक्ताः । लग्ने वाक्पतिशुक्राणां ब्राह्मणाः संमुखाः स्त्रियः । बुधशुक्रौ च केंद्रस्थौ सवत्सा गौः प्रदृश्यते ॥ चंद्रः सूर्यश्च भवति दशमस्थो यदाथवा। दीपादर्शी सुमनसौ रजका धौतवाससः ॥ सुतस्थाने यदा सौम्यो वृषो बद्धस्तु संमुखः । चंद्रो गुरुश्च सहजे श्वानो वामांगभागतः ॥ सर्वे कर्मायनवमे भारद्वाजोऽथ नाकुलः । चाषस्य दर्शनं वा स्याद्वामांगेऽत्यंतदुर्लभम् ॥ आदित्यो राहुसौरी च सहजस्थौ कुमारिका । प्रौढानां सुभगानां वा दर्शनं सर्वकामदम् ॥ षष्ठे तृतीये कर्माये भौमश्चेत्तत्फलं भवेत् । दास्यो वेश्याः सुरा मांसं लाभश्चैव सुनिश्चितः ॥ सप्ताष्टपंचमे यस्य जीवो ज्ञो वा प्रवर्तते । आ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy