________________
यात्राप्रकरणम् ।
२०१
दर्शषुष्पमांसानि सुरादर्शश्च लाभदः ॥ राहुभॊमश्च मंदश्च लग्नाद्यदि तृतीयगाः। उद्धृतं गोमयं पश्येच्छीघ्रं लाभधनं दिशेत् ॥ इत्यादयः शकुनाः शकुनग्रंथेभ्यो ज्ञेया विस्तरभयादिह नोक्ताः ॥ १०१ ॥ अथापशकुनान् शार्दूलविक्रीडितेनाहवंध्या चर्म तुषास्थि सर्पलवणांगारेंधनक्लीबविट्तैलोन्मत्तवसौषधारिजटिलप्रव्रातृणव्याधिताः॥ नग्नाभ्यक्तविमुक्तकेशपतिता व्यंगक्षुधार्ता असृक् स्त्रीपुष्पं सरठः स्वगेहदहनं मार्जारयुद्धं क्षुतम् ॥ १०२॥ वंध्येति ॥ वंध्या प्रसिद्धा चर्म प्रसिद्धम् तुषं धान्यादितुषम् अस्थि सर्पलवणानि प्रसिद्धानि अंगारो निधूमोऽग्निपिंडः इंधनं पाकयोग्यम् कीबः पंढः विट् उद्धृता विष्ठा । अस्त्री विष्ठाविशौ स्त्रियावित्यमरः । तैलं प्रसिद्धम् उन्मत्तो मद्यभूताद्यावेशवान् वसा शरीरांतर्धातुविशेषः औषधं प्रसिद्धम् अरिः शत्रुः जटिलो जटावान् प्रव्राट् संन्यासी तृणं प्रसिद्धम् व्याधितोऽचिकित्स्यव्याधिमान् नग्नः अपरिहितवस्त्रः कुमारव्यतिरिक्तः अभ्यक्तः कृततैलाभ्यंगोऽस्नातः विमुक्तकेशः असंयतकेशः पतितो मद्यपानाद्यभिशापवान् द्विजः व्यंगश्छिन्ननासिकादिः क्षुधातः क्षुत्पीडितः असूक् रुधिरम् स्त्रीणामृतुः सरठः ककलासः स्वगेहदहनं स्वगेहदाहः मार्जारयुद्धं प्रसिद्धम् शुतं छिक्का ॥ १०२ ॥ अन्यदपि शार्दूलविक्रीडितेनाह
काषायी गुडतक्रपंकविधवाकुब्जाः कुटुंबे कलिर्वस्त्रादेः स्खलनं लुलायसमरं कृष्णानि धान्यानि च ॥ कार्पासं वमनं च गर्दभरवो दक्षेऽतिरुट् गर्भिणी
मुंडाबरदुर्वचोंऽधबधिरोदक्या न दृष्टाः शुभाः॥१०३ ॥ काषायीति ॥ काषायो रागविशेषः तेन रक्तं वस्त्रं काषायं तद्वान् गुडतके प्रसिद्ध पंकः कर्दमः विधवाकुब्जौ प्रसिद्धौ कुटुंबे कलिः पुत्रादिभिः कलहः वस्त्रादेः स्खलनं आदिशब्देन कमंडलुछत्रादेः स्खलनं मिनिमित्तं स्वहस्तात्पतनम् लुलाया महिषास्तेषां समरं युद्धम् कृष्णवर्णानि धान्यानि माषादीनि कार्पासं तूलम् वमनं वांतम् दक्षे दक्षिणभागे गर्दभशब्दः अतिरुट क्रोधाधिक्यम् गर्भिणी गर्भवती मुंडो मुंडितशिरस्कः आर्द्राबरः आईवस्त्रः दुर्वचः स्वमुखोत्थं परमुखोत्थं वा दुष्टवाक्यम् अंधबधिरौ प्रसिद्धौ उदक्या रजस्वला स्त्री एते पदार्थाः गंतुः पुंसः यानसमये दृष्टाः संतो न शुभाः किंतु अशुभफलदाः । नारदः। सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं मरणप्रदम् । अफलं तच्छ्रुतं वाक्यं वृद्धपीनसकैतवैरिति । औषधे वाहनारोहे विवादे शयनेऽशने । विद्यारंभे बीजवापे क्षुतं सप्तसु शोभनमिति ॥१०३॥
Aho ! Shrutgyanam