________________
२०२
मुहूर्तचिंतामणौ अन्याञ्छकुनान् शार्दूलविक्रीडितेनाह
गोधाजाहकसूकराहिशशकानां कीर्तनं शोभनं नो शब्दो न विलोकनं च कपिऋक्षाणामतो व्यत्ययः॥ नद्युत्तारभयप्रवेशसमरे नष्टार्थसंवीक्षणे व्यत्यस्ताः
शकुना नृपेक्षणविधौ यात्रोदिताः शोभनाः ॥ १०४॥ गोधाजाहकेति ॥ गोधा प्राणिविशेषः गोह इति भाषया । जाहको गात्रसंकोची प्राणिविशेषः सकरः प्रसिद्धः अहिः सर्पः शशकः प्रसिद्धः यानसमये एषां गोधादीनां कीर्तनं स्वमुखेनान्यमुखेन वोच्चारणं शुभम् । न पुनरेतेषां गोधादीनां शब्दो रुतं अथवा विलोकनं दर्शनं शुभं निषिद्धमित्यर्थः । कपिऋक्षाणां कपीनां वानरादीनां ऋक्षाणां भल्लुकादीनां अतो गोधादिभ्यो व्यत्ययो ज्ञेयः । यथा वानराणां भल्लुकानां कीर्तनं निषिद्धम् तेषामेव द. र्शनं शब्दितं वा न निषिद्धम् शुभमित्यर्थः । नात्तार इति । नद्या गंगादेरुत्तारणे भये भयसंबंधिनि कार्ये पलायनादिके प्रवेशे गृहप्रवेशे समरे संग्रामे नष्टार्थस्य नष्टद्रव्यस्य संवीक्षणे गवेषणे प्रागुक्ताः शकुनाः व्यत्यस्ता विपरीता ज्ञेयाः । शुभशकुना विप्राश्वेत्यादयोऽशुभा ज्ञेयाः । वंध्याचर्मेत्याद्यशुभशकुनाः शुभफलदा ज्ञेयाः । नृपेति । नृपदर्शनार्थ गमने यात्रायामुदिता विप्राश्वेत्यादयः शकुनाः शुभा ज्ञेयाः । नृपावलोके शकुनः प्रयाणवदित्युके राजदर्शनस्य भयस्थानत्वाद्विप्राश्वेत्यादीनामपशकुनत्वप्राप्तौ तदपवादोऽयम् ॥ १०४ ॥ अथान्यदप्यनुष्टुभाह
वामांगे कोकिला पल्ली पोतकी सूकरी रला ॥
पिंगला छुछुका श्रेष्ठा शिवा पुरुषसंज्ञिताः॥ १०५ ॥ वामांगे इति ॥ कोकिलापल्लयौ प्रसिद्ध पोतकी दुर्गा सूकरी जात्यचटका रला पक्षिविशेषः । पिंगला भैरवी छुछका छछंदरी शिवा सुगाली पुरुषसंज्ञिताः पुनामानः कपोतखंजनतित्तिरिहंसादयः एते गच्छतां राजादीनां वामांगे शरीरवामभागे शस्ताः स्युः॥१०५॥ अन्यदप्यनुष्टुभाह
छिक्करः पिक्कको भासः श्रीकंठो वानरो रुरुः॥
स्त्रीसंज्ञकाः काकऋक्षश्वानः स्युर्दक्षिणाः शुभाः॥ १०६ ॥ _ छिक्कर इति ॥ छिक्करो मृगजातिः पिक्ककः पक्षिविशेषः भासः श्रीकंठः वानरः एते प्रसिद्धाः रुरुर्मुगविशेषः स्त्रीसंज्ञकाः स्त्रीनामानो मृगपक्षिणः दक्षिणभागगाः शुभाः शेषाः प्रसिद्धाः ॥ १०६ ॥
Aho ! Shrutgyanam