________________
यात्राप्रकरणम् ।
१९७ संप्रस्थितो य इह मंदिरतः प्रयातो
गंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९४ ॥ प्रस्थानमत्रेति ॥ धनुःप्रमाणं चतुःकराः तादृशानां धनुषां पंचशतानि हस्तसहस्त्रद्वयमिति यावत् । स्वगृहात्तावतस्तेषु प्रस्थानं स्यादिति केचिदूचुः अन्ये तु तादृशानां धनुषां शतद्वयं अष्टौ शतानि हस्तास्तावत्प्रस्थानमित्याहुः । अपरे तु इह यात्राकाले मंदिरतः स्वगृहाद्दशैव धषि चत्वारिंशद्धस्तास्तावदूरपस्थितः प्रयातः एवं ज्ञेयमित्याहुः । प्रस्थानं धनुषां पंचशतान्युत शतद्वयम् । स्वदेवसदनाद्वापि दशभिः प्रस्थितो द्रुत इति वसिष्ठोक्तेः । गंतव्यदिक्ष्विति तदपि प्रस्थानं प्रयतेन सावधानेन राज्ञा गंतव्यदिक्षु यस्यां दिशि गमनं चिकीर्षितं तद्दिगभिमुखं कार्यम् । गंतव्यदेशाभिमुखे प्रदेशे प्रस्थानमाहुः शुभदं नराणामिति राजमार्तडोक्तेः ॥ ९४ ।। अथान्यदपि स्त्रग्धरयाहप्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठेत्सामंतः सप्तरात्रं तदितरमनुजः पंचरात्रं तथैव ॥ ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्तरात्राणि पूर्व
चाशक्तौ तद्दिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ॥९॥ प्रस्थाने भूमिपाल इति ॥ भूमिपालो राजा प्रस्थाने दशदिवसमभिव्याप्य दशाहोरात्राणि न वसेत् । सामंतो मांडलिकश्चतुर्दारिकः एकत्र प्रस्थाने सप्तरात्रं न वसेत् । तदितरमनुजो ब्राह्मणादिस्तथैव एकत्र प्रस्थाने पंचरात्रं न वसेत् । यदि दैवाद्वसेत्तदा किं कुर्यादित्यत आह । उर्ध्वमिति अवधिदिवसातिक्रमानंतरं पुनर्गहमागत्य शुभाहे पूर्वोक्तप्रकारेण विचारिते शुभदिवसे गच्छेत् । क्वचिदिग्विशेषेण प्रस्थाने दिवसनियमोऽभिहितः । राजमार्तडः । प्राच्यामहानि मुनयः प्रवदंति सप्त याम्यामतीव शुभदानि दिनानि पंच । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्यामिति । अथ प्रस्थानकर्तर्नियममाह । अथेति असौ राजादिः रिपुविजयमनाः शत्रुजयकृतांतःकरणो यात्रादिनात्पूर्व सप्तरात्राणि मैथुनं संभोगं नैव कुर्यात् । च्यवनः । त्रिरात्रं वर्जयेत्क्षीरं पंचाहं शुरकर्म च । तदहश्चावशेषाणि सप्ताहं मैथुनं त्यजेत् । वा अथवा अशक्ती सप्ताहमतिकामितया स्थातुमशक्तौ तदिने यात्रादिवसे मैथुनं नैव कुर्यात् । गर्गः । यात्राकाले तु संप्राप्ते मैथुन यो निषेवते । रोगातः क्षीणकोशश्च स निवर्तेत वा नवेति । यदा तु प्रयाणदिने स्त्री ऋतुस्नाता भवति गमने चावश्यकता तत्र निर्णयमाह । च्यवनः । आत्ययिककार्यपाते पुष्पस्नातासमागमं कृत्वा । मुदितो गच्छेल्लभते मनोरथानचिरकालेनेति । यदा पुनर्गमनार्थ कालांतरमस्ति तदा तद्दिने मैथुनं कृत्वा कालांतरे सुलग्ने यायादित्यर्थसिद्धम् ॥९५॥
Aho! Shrutgyanam