Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
अथोक्तव्यतिरिक्तानां मृगपक्षिणां सामान्यतः प्रादक्षिण्येन शकुनमनुष्टुभाहप्रदक्षिणगताः श्रेष्ठा यात्रायां मृगपक्षिणः ॥
ओजा मृगा व्रजंतोऽतिधन्या वामे खरस्वनः ।। १०७ ।। प्रदक्षिणगता इति ॥ रुरुव्यतिरिक्तमृगाः पक्षिणच यात्रायां प्रादक्षिण्येन गताश्चलिताः श्रेष्ठाः शुभफलदाः स्युः परंतु ओजा मृगा विषमसंख्यास्त्रिपंचसप्तादयश्चेद्रजंतो दृष्टास्तदाऽतिधन्याः स्युः । वामे इति स्ववामभागे खरस्वनो गर्दभशब्दोऽतिधन्यः । अथ शकुनानां कियतां कालविशेषैनैर्बल्यमाह । वराहः । न ग्रामेऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः । दिवाचरो न शर्वर्या न च नक्तंचरो दिवा ॥ द्वंद्वरोगार्दितस्तत्र कलहामिषकांक्षिणः । आपगांतरिता मत्ता न ग्राह्याः शकुनाः क्वचित् || रोहिताश्वाजवालेय कुरंगोष्ट्रमृगाः शशाः । निष्फलाः शिशिरे ज्ञेया वसंते काककोकिलौ ॥ न तु भाद्रपदे ग्राह्याः सूकराश्च वृकादयः । शरघृक्षादयः क्रौंचाः श्रावणे हस्तिचातकौ ॥ व्याघ्रक्षवानरद्वीपिमहिषाः सबिलेशयाः । हेमंते निष्फला ज्ञेया बालाः सर्वे विमानुषा इति । प्रभग्नशुष्कद्रुमकंटकीषु श्मशानभस्मास्थितुषाकुलेषु । प्राकारशून्यालयजर्जरीषु सौम्योऽपि पापः शकुनः प्रकल्प्यः ॥ दैवज्ञमनोहरे । वरं श्रयेद्दुर्जनकालसर्पो वरं क्षिपेद्व्याघ्रमुखे स्वमंगम् । वरं तरेद्वारिनिधिं भुजाभ्यां नोल्लंघयेद्दुः शकुनं कदापि ॥ १०७ ॥
अथावश्यक कार्ये विरुद्धशकुने जातेऽपि परिहारमनुष्टुभाह
आद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् ॥
द्वितीये षोडश प्रणांस्तृतीये न कचिद्रजेत् ॥ १०८ ॥
२०३
आद्य इति ॥ आवश्यककार्ये विरुद्धशकुने जाते एकादश प्राणान् स्थित्वा एकादशप्राणपरिच्छेद्यं कालं स्थित्वेत्यर्थः । ततः समीचीने शकुने व्रजेत् । तत्रापि द्वितीये विरुद्धे शकुने संवृत्ते षोडशसंख्याकान् प्राणान् स्थित्वा शुभशकुने व्रजेत् । तत्रापि पुनस्तृतीये विरुद्धे शकुने संवृत्ते क्वचिदपि न व्रजेत् । किंतु परावृत्त्य गृहमागच्छेत् । दश गुर्वक्षरैः प्राण इति। कश्यपेन तु प्राणायामत्रयमेव प्रतीक्ष्यमित्युक्तम् । यायी विरुद्धं शकुनमादौ दृष्ट्रा प्रयत्नतः । प्राणायामत्रयं कुर्याद्वितीये द्विगुणं चरेत् ॥ तृतीये पुनरावृत्य शांत्या यायादिनां - तरे इति ॥ १०८ ॥
अथ यात्रानिवृत्तौ गृहप्रवेशमुपजात्याह
यात्रानिवृत्तौ शुभदं प्रवेशनं मृदुधुवैः क्षिप्रचरैः पुनर्गमः ॥ द्वीशेऽनले दारुणभे तथोग्रभे स्त्रीगेहपुत्रात्मविनाशनं क्रमात् ॥ १०९ ॥ यात्रानिवृत्ताविति ॥ मृदूनि चित्रानुराधामृगरेवत्यः ध्रुवाणि रोहिण्युत्तराश्च एभिर्नक्षत्रैः राज्ञो यात्रानिवृत्तौ प्रवेशनं शुभदम् । क्षिप्रचरैर्नक्षत्रैः अश्विनीपुष्यहस्ताभि
Aho! Shrutgyanam

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248