Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 216
________________ मुहूर्तचिंतामणौ अथ निर्गमस्थानानि पादाकुलकच्छंदसाह देवगृहाद्वा गुरुसदनाद्वा स्वगृहान्मुख्यकलत्रगृहावा ॥ प्राश्य हविष्यं विप्रानुमतः पश्यन् शृण्वन्मंगलमेयात् ॥९१॥ देवगृहादिति ॥ देवगृहादेवपूजागृहात् गुरोरध्यापकस्य गृहात्कुलगुरोर्वा स्वगृहात् स्वशयनगृहात् बहुस्त्रीत्वसंभवे मुख्यकलत्रं पट्टराज्ञी तगृहाहा हविष्यं प्राश्य भक्षयित्वा विफ्राह्मणैरनुमतः मंगलद्रव्यं मनोभीष्टं पश्यन् शृण्वन् सन् एयात् गच्छेत् ॥ ९१ ॥ अथ प्रस्थानवस्तूनि वर्णक्रमात् प्रहर्षिण्याहकार्याचैरिह गमनस्य चेद्विलंबो भूदेवादिभिरुपवीतमायुधं च ॥ क्षौद्रं चामलफलमाशु चालनीयं सर्वेषां भवति यदेव हृत्प्रियं वा ९२ कार्याचैरिति ॥ किंचिदावश्यक कार्य माभूदिति चेद्गमनस्य विलंबः स्यात्तदा विधारितयात्रालग्ने ब्राह्मणादिभिरेतानि वस्तूनि आशु चालनीयानि । यथा ब्राह्मणेनोपवीतं क्षत्रियेणायुधं वैश्येन मधु शूद्रेणामलफलं नारिकेलादि । राजमार्तडः । प्रस्थाने ब्राह्मणादीनां यज्ञसूत्रमथायुधम् । मध्वामलफलं चैव प्रशस्तं वृद्धिकारणमिति । वाऽथवा सर्वेषां वर्णानां यदेव हृत्प्रियं मनोभीष्टं तदेव प्रस्थापनीयम् । वसिष्ठः । श्वेतातपत्रध्वजचामरांश्च विभूषणोष्णीषगजांबराणि । आंदोलिकारत्नरथाश्ववारान् शय्यासनाद्यं मनसस्त्वभीष्टमिति ॥ ९२ ॥ अथ प्राच्यमतेन प्रस्थानपरिमाणं मंदाक्रांतयाहगेहाद्नेहांतरमपि गमस्तहि यात्रेति गर्गः सीनः सीमांतरमपि भृगुर्वाणविक्षेपमात्रम् ॥ प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवं यात्रा कार्या बहिरिह पुरात्स्यावसिष्ठो ब्रवीति ॥ ९३ ॥ गेहादिति ॥ स्वगृहात्परगृहमतिसमीपवर्त्यपि तत्रापि चेद्गमः स्यात्तर्हि यात्रा जातेति गर्गः कथयते । अथवा स्वसीमामुल्य सीमांतरं ग्रामांतरसीमां प्राप्य वसेदिति भृगुः कथयते । अथवा महता योद्धा स्वबलेन क्षिप्यमाणशरो यावद्दूरं गच्छति तावन्मात्रं प्रस्थान स्यादिति भरद्वाजः कथयते । अथवा पुरात् नगरात् बहिः यात्रा कार्यति वसिष्ठः कथयते ॥ ९३ ॥ अथ मुनिमतेन प्रस्थानपरिमाणं वसंततिलकयाह प्रस्थानमत्र धनुषां हि शतानि पंच केचिच्छतव्यमुशंति दशैव चान्ये ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248