Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 204
________________ १८४ मुहूर्तचिंतामण अथान्यं योगं पंत्याह लग्नगतः स्याद्देवपुरोधाः ॥ लाभधनस्थैः शेषनभोगैः ॥ ६१ ॥ लग्नगतः स्यादिति ॥ लग्ने गुरुः स्यात् अन्ये ग्रहा लाभधनस्थाः एकादशद्वितीयस्थाश्वेदेवंविधे योगे राज्ञो विजयः ॥ ६१ ॥ अन्यं योगंमत्तयाह द्यूने चंद्रे समुदयगेऽर्के जीवे शुक्रे विदि धनसंस्थे ॥ ईदृग्योगे चलति नरेशो जेता शत्रून् गरुड इवाहीन् ॥ ६२ ॥ द्यून इति ॥ चंद्रे सप्तमस्थे सति अर्के समुदयगे लग्भगे सति जीवे शुक्रे विदि बुधे एतेऽषु त्रिषु धनसंस्थेषु द्वितीयस्थानस्थितेषु सत्सु एवंविधे योगे नरेशश्चेत् चलति तदा शत्रून् जेता जेष्यति । कः कानिव गरुडोऽहीन् सर्पान् यथा ॥ ६२ ॥ अथान्यं योगं चित्रपदयाह वित्तगतः शशिपुत्रो भ्रातरि वासरनाथः ॥ लग्नगते भृगुपुत्रे स्युः शलभा इव सर्वे ॥ ६३ ॥ वित्तगत इति ॥ बुधो द्वितीये वासरनाथः सूर्यस्तृतीये शुक्रे लग्नगे एवंविधे योगे चेद्राजा चलति तदा शत्रवो राजानः शलभा इव स्युः । यथा शलभा अनौ स्वयमेव गत्वा पतंति तथा शत्रवोऽपि गंतृराजप्रतापानले पतिष्यतीत्यर्थः ॥ ६३ ॥ अथान्यं योगं गाथयाह उदये रविर्यदि सौरिररिंगः शशी दशमेऽपि ॥ वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६४ ॥ उदयेरविरिति ॥ उदये रविः शनिः षष्ठः चंद्रो दशमः स्यात् एवंविधे योगे वसुधापती राजा यदि याति तदा रिपुवाहिनी शत्रुसेना वशमेति ॥ ६४ ॥ अथान्यद्योगद्वयं जलोद्धतगत्याह तनौ शनिकुजौ रविदेशमभे बुधो भृगुसुतोऽपि लाभदशमे || त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥ ६५ ॥ 1 तनौ शनिकुजाविति ॥ इत आरभ्य वसुधापतिर्यदि याति रिपुवाहिनी वशमेतीत्युत्तरार्धे सहजे कुज इत्येतत्पर्यंतमनुवर्तते । तेन यत्र फलनिर्देशो नास्ति तत्र जिगमिषो राज्ञो विजयः स्यादिति वाक्यार्थोज्ञेयः । तनौ लग्नस्थौ शनिमंगलौ स्याताम् । रविर्दशमे बुधो लाभे दशमे वा स्यात् भृगुसुतो वा लाभे दशमे वा स्यात् एवंविधे योगे प्रचलितस्य राज्ञो विजयः स्यात् । अयमेको योगः । अथ द्वितीयः । त्रिलाभरिपुभेषु ३, ११, ६, एष्वन्यतमस्थानस्थितौ भूसुतशनी स्याताम् यस्मिन् कस्मिंश्चित्स्थाने गुरुज्ञभृगुजा बलयुताः स्युस्तदा राज्ञो विजय इत्यर्थः ॥ ६५ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248