Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 212
________________ १९२ मुहूर्तचिंतामण कस्य प्राबल्यमित्यत आह । अथेति शकुनादितोऽपि सकाशाच्चेतोविशुद्धिरधिका तां चेतोव - शुद्धिं विना नेयात् न गच्छेत् । कश्यपः । निमित्तशकुनादिभ्यः प्रधानं हि मनोजयः । तस्माद्धिया सतां नृणां फलसिद्धिर्मनोजयादिति ॥ ७८ ॥ अथ यात्रायामवश्यनिषिद्धनिमित्तानि वसंतमालिकाछंदसाह तल्लक्षणम् । विषमे ससजा गुरू समे चेत् समरायश्च वसंतमालिका सा । विषमे समे चरणे ॥ व्रतबंधनदेवताप्रतिष्ठाकरपीडोत्सव सूतकासमाप्तौ ॥ न कदापि चलेदकालविद्युद्धनवर्षातुहिनेऽपि सप्तरात्रम् ॥ ७९ ॥ व्रतबंधनेति ॥ व्रतबंधनं यज्ञोपवीतम् देवप्रतिष्ठा प्रसिद्धा करपीडा विवाहः उत्सवो होलिकादिः सूतकं द्विविधं जननसूतकं मरणसूतकं च एषां शास्त्रोक्तयावद्दिनसमाप्यानामसमाप्तौ समाप्ति विना कदापि नैव चलेत् गच्छेत् । नारदः । उत्सवोपनयोद्वाहप्रतिष्ठाशौचसूतके । आसमाप्तेर्न कुर्वीत यात्रां तत्र जिजीविषुरिति । अकालेति विद्युत् प्रसिद्धा घनो मेघगर्जतम् वर्षावृष्टिः तुहिनं नीहारः एषु पदार्थेष्वकालेषु सत्सु सप्तरात्रं दिनसप्तकं न चलेत् । नारदः । अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु । उत्पातेषु त्रिविधेषु सप्तरात्रं न तु ब्रजेदिति ॥ ७९ ॥ अथैकदिन साध्ये गमनप्रवेशे विशेषं वंशस्थवत्तेनाह महीपतेरेकदिने पुरात्पुरे यदा भवेतां गमनप्रवेशकौ ॥ भवारशूलप्रतिशुक्रयोगिनी विचारयेन्नैव कदापि पंडितः ॥ ८० ॥ महीपतेरिति ॥ स्पष्टार्थः । यथा वाराणसीस्थानाच्चरणाद्विनगरे प्रवेशः तत्रैतान् दोषान् पंडितो नैव विचारयेत् ॥ ८० ॥ अथैकदिनमध्ये निर्गमप्रवेशाख्यरूपे कार्ये विचिकीर्षिते किंविचार्यमित्यार्ययाह यद्येकस्मिन् दिवसे महीपतेर्निर्गमप्रवेशौ स्तः ॥ तहि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥ ८१ ॥ यद्येकस्मिन्निति ॥ स्पष्टार्थम् ॥ ८१ ॥ अथ प्रयाणे नवमीदोषमनुष्टुभाह प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ ॥ नक्षत्रे च तथा वारे नैव कुर्यात्कदाचन ॥ ८२ ॥ प्रवेशादिति ॥ गृहप्रवेशतिथितो नवमे तिथौ निर्गमं न कुर्यात् । पुनश्च गमनदिवसात् नवमे तिथौ गृहप्रवेशं न कुर्यात् । एवं नक्षत्रान्नवमे नक्षत्रे गृहप्रवेशं तथा गृहप्रवेशनक्षत्रान्नवमनक्षत्रे गमनं च न कुर्यात् । वारे च गमनवारान्नवमवारे गृहप्रवेशं गृहप्रवेश Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248