________________
१९२
मुहूर्तचिंतामण
कस्य प्राबल्यमित्यत आह । अथेति शकुनादितोऽपि सकाशाच्चेतोविशुद्धिरधिका तां चेतोव - शुद्धिं विना नेयात् न गच्छेत् । कश्यपः । निमित्तशकुनादिभ्यः प्रधानं हि मनोजयः । तस्माद्धिया सतां नृणां फलसिद्धिर्मनोजयादिति ॥ ७८ ॥
अथ यात्रायामवश्यनिषिद्धनिमित्तानि वसंतमालिकाछंदसाह
तल्लक्षणम् । विषमे ससजा गुरू समे चेत् समरायश्च वसंतमालिका सा । विषमे समे चरणे ॥ व्रतबंधनदेवताप्रतिष्ठाकरपीडोत्सव सूतकासमाप्तौ ॥
न कदापि चलेदकालविद्युद्धनवर्षातुहिनेऽपि सप्तरात्रम् ॥ ७९ ॥ व्रतबंधनेति ॥ व्रतबंधनं यज्ञोपवीतम् देवप्रतिष्ठा प्रसिद्धा करपीडा विवाहः उत्सवो होलिकादिः सूतकं द्विविधं जननसूतकं मरणसूतकं च एषां शास्त्रोक्तयावद्दिनसमाप्यानामसमाप्तौ समाप्ति विना कदापि नैव चलेत् गच्छेत् । नारदः । उत्सवोपनयोद्वाहप्रतिष्ठाशौचसूतके । आसमाप्तेर्न कुर्वीत यात्रां तत्र जिजीविषुरिति । अकालेति विद्युत् प्रसिद्धा घनो मेघगर्जतम् वर्षावृष्टिः तुहिनं नीहारः एषु पदार्थेष्वकालेषु सत्सु सप्तरात्रं दिनसप्तकं न चलेत् । नारदः । अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु । उत्पातेषु त्रिविधेषु सप्तरात्रं न तु ब्रजेदिति ॥ ७९ ॥
अथैकदिन साध्ये गमनप्रवेशे विशेषं वंशस्थवत्तेनाह
महीपतेरेकदिने पुरात्पुरे यदा भवेतां गमनप्रवेशकौ ॥ भवारशूलप्रतिशुक्रयोगिनी विचारयेन्नैव कदापि पंडितः ॥ ८० ॥ महीपतेरिति ॥ स्पष्टार्थः । यथा वाराणसीस्थानाच्चरणाद्विनगरे प्रवेशः तत्रैतान् दोषान् पंडितो नैव विचारयेत् ॥ ८० ॥
अथैकदिनमध्ये निर्गमप्रवेशाख्यरूपे कार्ये विचिकीर्षिते किंविचार्यमित्यार्ययाह
यद्येकस्मिन् दिवसे महीपतेर्निर्गमप्रवेशौ स्तः ॥
तहि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥ ८१ ॥ यद्येकस्मिन्निति ॥ स्पष्टार्थम् ॥ ८१ ॥
अथ प्रयाणे नवमीदोषमनुष्टुभाह
प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ ॥ नक्षत्रे च तथा वारे नैव कुर्यात्कदाचन ॥ ८२ ॥
प्रवेशादिति ॥ गृहप्रवेशतिथितो नवमे तिथौ निर्गमं न कुर्यात् । पुनश्च गमनदिवसात् नवमे तिथौ गृहप्रवेशं न कुर्यात् । एवं नक्षत्रान्नवमे नक्षत्रे गृहप्रवेशं तथा गृहप्रवेशनक्षत्रान्नवमनक्षत्रे गमनं च न कुर्यात् । वारे च गमनवारान्नवमवारे गृहप्रवेशं गृहप्रवेश
Aho! Shrutgyanam