Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
मुहूर्तचिंतामणौ अथान्यं योगं प्रमिताक्षरा सजससैरुदितेति लक्षणलक्षितप्रमिताक्षराच्छंदसाहरिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः॥ व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥ ७१॥
रिपुलग्नोति ॥ षष्ठलग्नदशमचतुर्थानामन्यतमस्थानस्थे बुधे शुभनभोगमनैः शुभग्रहैः परिवीक्षिते दृष्टे सति द्वादशलग्नसप्तमस्थानव्यतिरिक्तस्थानस्थितैरशुभनामधरैः पापग्रहैरुपलक्षिते सति एवंविधे योगे जिगमिषो राज्ञो विजय एव ॥ ७१ ॥ अथान्यं योगद्वयं त्यौ त्यौ मणिमाला छिन्ना गुहवकैरिति लक्षणलक्षितयाह
लग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि वा चेद्राज्याधिगमः स्यात् ॥ यूने बुधशुक्रौ चंद्रो हिबुके वा
तत्फलमुक्तं सर्वैर्मुनिवर्यः ॥ ७२ ॥ लग्न इति ॥ लग्ने गुरुः पापग्रहा यदि लाभे एकादशे कर्मण्यपि दशमेऽपि चेत्स्युः एवंविधयोगे प्रचलितस्य राज्ञो राज्याधिगमो राज्यप्राप्तिः स्यात् । अथवा द्यूने सप्तमे बुधशुक्रौ स्यातां चंद्रो हिबुके चतुर्थे स्यादेवंविधयोगे सर्वेर्मुनिवर्यस्तद्वत्फलमुक्तं राज्याधिगमः स्यात् ॥ ७२ ॥
अथान्यद्योगत्रयं ननततगुरुभिश्चंद्रिकाश्वर्तुभिरिति लक्षणलक्षितेन चंद्रिकाच्छंदसाहरिपुतनुनिधने शुक्रजीवेंदवो ह्यथ बुधभृगुजी तुर्यगेहस्थितौ ॥ मदनभवनगश्चंद्रमा वांबुगः शशिसुतभृगुजांतर्गतश्चंद्रमाः ॥ ७३ ॥
रिपुतन्विति ॥ अत्र स्थानानां ग्रहाणां च साम्याद्यथासंख्यमन्वयः । यथा रिपौ षष्ठे शुक्रः लग्ने जीवः अष्टमे चंद्रः एवंविधे योगे गंतू राज्ञो विजय एव । अयमेको योगः। अथ द्वितीयः बुधभृगुजौ तुर्यगेहस्थितौ चतुर्थस्थानस्थौ स्याताम् चंद्रमा मदनभवनगः सप्तमस्थानस्थश्चेदेवंविधे योगे गंतू राज्ञो विजय एव । अथ तृतीयो योगः वा चंद्रमा अंबुगः चतुर्थगः बुधशुक्रयोरंतर्गतो मध्यवर्ती चेत्तदापि राज्ञो विजय एव शशिसुतभृगुजयोरंतर्गतत्वं एकराशावेव ज्ञेयम् अन्यथा चतुर्थस्थानस्थचंद्रस्य बुधशुक्रकतदुरुधरायोगमेवावक्ष्यत् ॥ ७३॥ __ अथान्यद्योगद्वयं सजसासगौ च कथितः कलहंस इति लक्षणलक्षितेन कलहंसच्छंदसाहसितजीवभौमबुधभानुतनूजास्तनुमन्मथारिहिबुकत्रिगृहे चेत् ॥ क्रमतोऽरिसोदरखशात्रवहोरा हिबुकायगैर्गुरुदिनेऽखिलखेटैः ७४
Aho ! Shrutgyanam

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248