Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 207
________________ यात्राप्रकरणम् । सितेति ॥ लग्ने शुक्रः सप्तमे जीवः षष्ठे भौमः चतुर्थे बुधः तृतीये शनिः एवंविधे योगे गंतू राज्ञो विजय एव एको योगः अथान्यः । गुरुदिने बृहस्पतिवारे अखिलखेटैः समस्तग्रहैः सूर्यादिभिः क्रमतोऽरिसोदरेत्यादिस्थानस्थितैः यथा षष्ठेऽर्कः तृतीये चंद्रः दशमे भौमः षष्ठे बुधः लग्ने गुरुः चतुर्थे शुक्रः एकादशे शनिः एवंविधे योगेऽपि गंतू राज्ञो विजय एव ॥ ७४ ॥ अथान्यद्योगद्वयं सजसा जगौ च कथिता प्रबोधिकेति लक्षणलक्षितप्रबोधिकाच्छंदसाह सहजे कुजो निधनगश्च भार्गवो मदने बुधो रविररौ तनौ गुरुः ॥ अथ चेत्स्युरीज्यसितभानवो जल त्रिगता हि सौरिरुधिरौ रिपुस्थितौ ॥ ७ ॥ सहज इति ॥ तृतीये भौमः अष्टमे शुक्रः सप्तमे बुधः षष्ठे सूर्यः लग्ने गुरुः एवंविधे योगे गंतू राज्ञो विजय एव अयमेको योगः । अथान्यः । अथेति । ईज्यसितभानवो गुरुशुक्रसूर्याः जलत्रिगताः चतुर्थतृतीयस्थानस्थाः सौरिरुधिरौ शनिमंगलौ षष्ठस्थितौ एवंविधे योगे हि निश्चितं राज्ञो जयः स्यात् ॥ ७५ ॥ अथ नामविशेषपुरस्कारेण योगत्रयं सफलं शार्दूलविक्रीडितेनाहएको ज्ञेज्यसितेषु पंचमतप:केंद्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः॥ योगे क्षेममथाधियोगगमने क्षेमं रिपूणां वधं चाथो क्षेमयशोवनीश्च लभते योगाधियोगे ब्रजन् ॥७६॥ एक इति ॥ ज्ञेज्यसितेषु बुधगुरुशुक्रेषु एकोऽपि बुधो वा गुरुर्वा शुक्रो वा चेत्पंचमतपःकेंद्रेषु तदा योगाख्यो योगः । तथा तेषु ज्ञेज्यसितेषु द्वौ चेत् बुधगुरू बुधशुक्रौ गुरुशुक्रो वा चेत्पंचमतपःकेंद्राणामन्यतमस्थाने स्थानभेदेन स्थानैक्येन वा स्थितौ स्यातां तदाधियोगाख्यो योगः । सकलाः ज्ञेज्यसिताः एषु पंचमतपःकेंद्राणामन्यतमस्थानेषु स्थानभेदेन स्थानैक्येन वा स्थितास्तदा योगाधियोगाख्यो योगः । फलमाह योग इति । योगे व्रजन् राजा क्षेमं कुशलं लभते कुशलेन गतागतं करोतीत्यर्थः । अथाधियोगे व्रजन् राजा क्षेमं तथा रिपूणां वधं च लभते । अथ योगाधियोगे व्रजन् राजा क्षेमयशोवनीश्चकारात् शत्रुवधं च लभते । अत्र वसिष्ठादिभिर्बहूनि यात्रालग्नान्यभिहितानि तानि तथेभ्य एवावधार्याणि ॥ ७६ ॥ ___ अथान्येऽपि यात्रायोगा लिख्यते । कश्यपः । पंचमे ज्ञो रविः षष्ठे वर्तते नवमे गुरुः । भाग्ययोगाभिधे योगे निहंता वैरिणां सदा ॥ १ ॥ गुरुः केंद्रे त्रिकोणे वा रविर्लाभे च Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248