________________
यात्राप्रकरणम् । सितेति ॥ लग्ने शुक्रः सप्तमे जीवः षष्ठे भौमः चतुर्थे बुधः तृतीये शनिः एवंविधे योगे गंतू राज्ञो विजय एव एको योगः अथान्यः । गुरुदिने बृहस्पतिवारे अखिलखेटैः समस्तग्रहैः सूर्यादिभिः क्रमतोऽरिसोदरेत्यादिस्थानस्थितैः यथा षष्ठेऽर्कः तृतीये चंद्रः दशमे भौमः षष्ठे बुधः लग्ने गुरुः चतुर्थे शुक्रः एकादशे शनिः एवंविधे योगेऽपि गंतू राज्ञो विजय एव ॥ ७४ ॥ अथान्यद्योगद्वयं सजसा जगौ च कथिता प्रबोधिकेति लक्षणलक्षितप्रबोधिकाच्छंदसाह
सहजे कुजो निधनगश्च भार्गवो मदने बुधो रविररौ तनौ गुरुः ॥ अथ चेत्स्युरीज्यसितभानवो जल
त्रिगता हि सौरिरुधिरौ रिपुस्थितौ ॥ ७ ॥ सहज इति ॥ तृतीये भौमः अष्टमे शुक्रः सप्तमे बुधः षष्ठे सूर्यः लग्ने गुरुः एवंविधे योगे गंतू राज्ञो विजय एव अयमेको योगः । अथान्यः । अथेति । ईज्यसितभानवो गुरुशुक्रसूर्याः जलत्रिगताः चतुर्थतृतीयस्थानस्थाः सौरिरुधिरौ शनिमंगलौ षष्ठस्थितौ एवंविधे योगे हि निश्चितं राज्ञो जयः स्यात् ॥ ७५ ॥ अथ नामविशेषपुरस्कारेण योगत्रयं सफलं शार्दूलविक्रीडितेनाहएको ज्ञेज्यसितेषु पंचमतप:केंद्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः॥ योगे क्षेममथाधियोगगमने क्षेमं रिपूणां वधं चाथो क्षेमयशोवनीश्च लभते योगाधियोगे ब्रजन् ॥७६॥ एक इति ॥ ज्ञेज्यसितेषु बुधगुरुशुक्रेषु एकोऽपि बुधो वा गुरुर्वा शुक्रो वा चेत्पंचमतपःकेंद्रेषु तदा योगाख्यो योगः । तथा तेषु ज्ञेज्यसितेषु द्वौ चेत् बुधगुरू बुधशुक्रौ गुरुशुक्रो वा चेत्पंचमतपःकेंद्राणामन्यतमस्थाने स्थानभेदेन स्थानैक्येन वा स्थितौ स्यातां तदाधियोगाख्यो योगः । सकलाः ज्ञेज्यसिताः एषु पंचमतपःकेंद्राणामन्यतमस्थानेषु स्थानभेदेन स्थानैक्येन वा स्थितास्तदा योगाधियोगाख्यो योगः । फलमाह योग इति । योगे व्रजन् राजा क्षेमं कुशलं लभते कुशलेन गतागतं करोतीत्यर्थः । अथाधियोगे व्रजन् राजा क्षेमं तथा रिपूणां वधं च लभते । अथ योगाधियोगे व्रजन् राजा क्षेमयशोवनीश्चकारात् शत्रुवधं च लभते । अत्र वसिष्ठादिभिर्बहूनि यात्रालग्नान्यभिहितानि तानि तथेभ्य एवावधार्याणि ॥ ७६ ॥ ___ अथान्येऽपि यात्रायोगा लिख्यते । कश्यपः । पंचमे ज्ञो रविः षष्ठे वर्तते नवमे गुरुः । भाग्ययोगाभिधे योगे निहंता वैरिणां सदा ॥ १ ॥ गुरुः केंद्रे त्रिकोणे वा रविर्लाभे च
Aho! Shrutgyanam