________________
१८८
मुहूर्तचिंतामणौ कर्मणि । कल्याणयोगो भूपस्य यातुः कल्याणकद्भवेत् ॥ २॥ दिगीशो दिग्बली चेत्स्याब्लग्नेशस्य सुहृद्यदि । विजयो नाम योगोऽयं याता राजा जयी भवेत् ॥ ३ ॥ अत्रिः । सहजस्थानगो भौमो भाग्यस्थश्च बृहस्पतिः । चिंतामणिसमाख्योऽयं यातुः संकल्पपूरकः ॥ ४ ॥ लग्ने शुक्रः शशी बंधौ कर्मस्थाने गुरुर्यदा । मृगेंद्रयोगो विख्यातो यातुः सर्वार्थसाधकः ॥ ५॥ लग्ने भौमो गुरुच्छिद्रे षष्ठस्थाने च भास्करः । मृत्युंजयसमाख्योऽयं सर्वशत्रुनिबर्हणः ॥ ६ ॥ आपोक्लिमगते चंद्रे केंद्रस्थे सुरपूजिते । योगः केंद्र इति ख्यातो यातुरिष्टार्थसिद्धिदः ॥ ७ ॥ चंद्रोदये गुरुश्चास्ते लग्ने वा सुरपूजिते । योगः पारावतो यातुः शुक्र वा लग्नकेंद्रगे ॥ ८ ॥ प्रबले यदि योगोऽसौ गमने सर्वसिद्धिदः ॥ ९॥ रविः षष्ठे सितश्छिद्रे तृतीये भूमिनंदनः । पिनाकियोगो विख्यातो यातुर्विजयकारकः ॥ १० ॥ अन्योन्यक्षेत्रगावेकक्षेत्रे वा कविभास्करौं । मृत्युयोगोऽयमाख्यातो यातुमृत्युप्रदायकः ११ उच्चक्षेत्रगतश्चंद्रो ह्यक्षीणश्च रविर्गुरुः । संजीवनसमाख्योऽयं मृत्युयोगापहारकः ॥ १२ ॥ एकसंगौ जीवशुक्रौ स्यातामन्योन्यसप्तगौ । भयंकराख्ययोगोऽयं यातुर्भीतिप्रदः स्मृतः १३ उच्चमूलत्रिकोणेषु वर्तते गुरुभार्गवौ । अभयाभिधयोगोऽयं भयंकरविनाशनः ॥ १४ ॥ भार्येशो व्ययगो नीचः पुत्रस्थाने शनैश्चरः । विदारिकसमाख्योऽयं यातुः पत्नी निहंत्यसौ ॥ १५ ॥ मार्गेशः शनिसंयुक्तः सप्तमेऽस्तंगतो ग्रहः । विदारिकमिमं मन्ये यातुः पत्नीविनाशकम् ॥ १६ ॥ सप्तमे चंद्रमास्तस्मात्सप्तमे नीचखेचरः । कुटुंबहारको योगो यातुः प्रियतमा हरेत् ॥ १७ ॥ दुर्बलो यदि मार्गेशो निवसेत्पापमध्यगः ॥ पापकुंजरयोगोऽयं यातुः पत्नी निहंत्यसौ ॥ १८ ॥ मार्गेशात्सप्तमे भानुः पंचमे क्रूरखेचरः । विदारिकाख्य एवासौ भार्यामरिवशं नयेत् ॥ १९ ॥ स्वोच्चमूलत्रिकोणस्थः सौम्यः पापविवर्जितः । आनंदार्णवयोगोऽयं धर्मेणैव जयावहः ॥ २० ॥ रत्नावल्याम् । उदयारिनभस्तलगैदिनकृद्यमशीतकरैः । न भवंत्यरयोऽभिमुखा हरिणा इव केसरिणः ॥ २१ ॥ दैवज्ञवल्लभे । ज्ञे सितेन सहितेऽस्तगे विधौ बंधुगे प्रवसता महीभुजा । संगरे रिपुगणो विकीर्यते तूलराशिरिव मातरिश्वना ॥ २२ ॥ मूर्ति वित्तसहजेषु संस्थिताः शुक्रचंद्रसुततिग्मरश्मयः । यस्य यानसमये रणांगणे तस्य यांति शलभा इवारयः ॥ २३ ॥ यात्राशिरोमणौ । यो याति जीवे तनुगे महीशः क्रूरैः स्थितैव्योम्यथवायसंस्थैः । तस्याग्रतः संयति वैरिसेना प्रीतिर्नृपाणामिव नो स्थिरा स्यात् ॥ २४ ॥ राजमार्तडः । लाभारिदुश्चिक्यगतौ यमारौ बलान्विता भार्गवजीवसौम्याः । यस्य प्रयाणे विलयं प्रयांति तस्य द्विषः सर्वरसं यथाप्सु ॥ २५ ॥ फलप्रदीपे। लाभविक्रमसुखस्थिते कवौ कंटकस्थगुरुणा निरीक्षिते । द्यूनरंध्रभववर्जितैः खलैः स्याद्गतोऽभिमतसिद्धिभाङ्नृपः ॥ २६ ॥ सौम्यग्रहैः केंद्रतपःसुतस्थैः क्रूस्त्रिलाभारिगतैर्गता ये। कोपानलः शांतिमुपैति तेषां विरोधिनारीनयनांबुपातैः ॥ २७ ॥ वराहः । एकोऽपि जीवा
Aho ! Shrutgyanam