________________
१८४
मुहूर्तचिंतामण
अथान्यं योगं पंत्याह
लग्नगतः स्याद्देवपुरोधाः ॥ लाभधनस्थैः शेषनभोगैः ॥ ६१ ॥ लग्नगतः स्यादिति ॥ लग्ने गुरुः स्यात् अन्ये ग्रहा लाभधनस्थाः एकादशद्वितीयस्थाश्वेदेवंविधे योगे राज्ञो विजयः ॥ ६१ ॥
अन्यं योगंमत्तयाह
द्यूने चंद्रे समुदयगेऽर्के जीवे शुक्रे विदि धनसंस्थे ॥
ईदृग्योगे चलति नरेशो जेता शत्रून् गरुड इवाहीन् ॥ ६२ ॥ द्यून इति ॥ चंद्रे सप्तमस्थे सति अर्के समुदयगे लग्भगे सति जीवे शुक्रे विदि बुधे एतेऽषु त्रिषु धनसंस्थेषु द्वितीयस्थानस्थितेषु सत्सु एवंविधे योगे नरेशश्चेत् चलति तदा शत्रून् जेता जेष्यति । कः कानिव गरुडोऽहीन् सर्पान् यथा ॥ ६२ ॥
अथान्यं योगं चित्रपदयाह
वित्तगतः शशिपुत्रो भ्रातरि वासरनाथः ॥
लग्नगते भृगुपुत्रे स्युः शलभा इव सर्वे ॥ ६३ ॥
वित्तगत इति ॥ बुधो द्वितीये वासरनाथः सूर्यस्तृतीये शुक्रे लग्नगे एवंविधे योगे चेद्राजा चलति तदा शत्रवो राजानः शलभा इव स्युः । यथा शलभा अनौ स्वयमेव गत्वा पतंति तथा शत्रवोऽपि गंतृराजप्रतापानले पतिष्यतीत्यर्थः ॥ ६३ ॥
अथान्यं योगं गाथयाह
उदये रविर्यदि सौरिररिंगः शशी दशमेऽपि ॥ वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६४ ॥ उदयेरविरिति ॥ उदये रविः शनिः षष्ठः चंद्रो दशमः स्यात् एवंविधे योगे वसुधापती राजा यदि याति तदा रिपुवाहिनी शत्रुसेना वशमेति ॥ ६४ ॥ अथान्यद्योगद्वयं जलोद्धतगत्याह
तनौ शनिकुजौ रविदेशमभे बुधो भृगुसुतोऽपि लाभदशमे || त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥ ६५ ॥
1
तनौ शनिकुजाविति ॥ इत आरभ्य वसुधापतिर्यदि याति रिपुवाहिनी वशमेतीत्युत्तरार्धे सहजे कुज इत्येतत्पर्यंतमनुवर्तते । तेन यत्र फलनिर्देशो नास्ति तत्र जिगमिषो राज्ञो विजयः स्यादिति वाक्यार्थोज्ञेयः । तनौ लग्नस्थौ शनिमंगलौ स्याताम् । रविर्दशमे बुधो लाभे दशमे वा स्यात् भृगुसुतो वा लाभे दशमे वा स्यात् एवंविधे योगे प्रचलितस्य राज्ञो विजयः स्यात् । अयमेको योगः । अथ द्वितीयः । त्रिलाभरिपुभेषु ३, ११, ६, एष्वन्यतमस्थानस्थितौ भूसुतशनी स्याताम् यस्मिन् कस्मिंश्चित्स्थाने गुरुज्ञभृगुजा बलयुताः स्युस्तदा राज्ञो विजय इत्यर्थः ॥ ६५ ॥
Aho! Shrutgyanam