________________
यात्राप्रकरणम् ।
१८३
याने शुभफलदाः स्युः पापारुयाषट्खेषु ३, ११, ६, १०, शुभफलदाः स्युः चंद्र लग्नांत्यारिरंध्रे १, १२, ६, ८, नेष्टः अशुभफलदः शनिः खे दशमे नेष्टः शुक्रोऽस्ते सप्तमे नेष्टः । लग्नेडिति । लग्नेट् यात्रालग्नस्वामी नगांत्यारिरंध्रे सप्तमद्वादशषष्ठाष्टमेषु चेत्तदा नेष्टः अशुभफलद इत्यर्थः । गुरुः । लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगः केऽप्याहुर्भयदो धर्मे शेषस्थाने शुभाव इति ॥ ९६ ॥
अथ योगयात्रा व्याख्यायते । तदारंभप्रयोजनं पादाकुलकेनाहयोगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् ॥ चौराणामपि शुभशकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥ ५७॥ योगादिति ॥ धरणिपतीनां राज्ञां योगाद्वक्ष्यमाणयोगयात्रालग्नवशाद्दृष्टे तिथ्यादौ सिद्धिर्वांछितकार्यनिष्पत्तिः स्यात् । भूदेवानां ब्राह्मणानां ऋक्षगुणैर्नक्षत्रगुणैश्चंद्रबलताराबलविहितनक्षत्रर्त्वादिभिः सिद्धिर्भवति । अपिशब्दात्पंचांग शुद्ध्यादिषु नावश्यकता । चौराणां वक्ष्यमाणैः शुभसूचकशकुनैः सिद्धिर्भवति । एतद्भिन्नानां मनुजानां मुहूर्तात् गिरिशभुजगमित्रा । इति विहितनक्षत्रस्वामिकमुहूर्तात्सिद्धिर्भवति ॥ ९७ ॥
अथ योगात्रानं मंजुभाषिण्याह
सहजे रविर्दशमभे शशी तथा शनिमंगला रिपुगृहे सितः सुते ॥ हिgh बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः॥५८॥
सहजेरविरिति ॥ रविः सहजे तृतीये स्यात् शशी चंद्रो दशमभे दशमस्थाने शनिमंगलौ रिपुगृहे षष्ठस्थाने स्यातां सितः सुते पंचमे बुधो हिबुके चतुर्थे गुरुरपि लग्नगश्चेत्स्यात् एवंविधे योगे राजा प्रचलितः अचिरात्स्वल्पकालेनैवारीन् जयति वशीकरो - तीत्यर्थः ॥ ५८ ॥
अथ योगांतरं गाथयाह
भ्रातरि सौरिर्भूमिसुतो वैरिणि लग्ने देवगुरुः ॥
आयगतेऽशत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥ ५९ ॥
भ्रातरि सौरिरिति ॥ भ्रातरि तृतीये शनिः वैौरणि षष्ठे भूमिसुतो मंगलः अर्के आयगते एकादशे एवंविधे योगे राज्ञां शत्रुजयो भवेत् चेदैत्यगुरुः शुक्रो ऽनुकूलः यातव्यदिष्टष्ठवर्ती भवति ॥ ५९ ॥
अन्यद्योगांतरं भुजंगप्रयातार्धेनाह
जीव इंदु
वैरिगोऽर्कः प्रयातो महींद्रो जयत्येव शत्रून् ॥ ६० ॥
जीव इति ॥ स्पष्टार्थः । तथाच नारदः । जीवार्कचंद्रा लग्नारिरंध्रगा यदि गच्छतः । तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनीति ॥ ६० ॥
Aho! Shrutgyanam