________________
१८२
मुहूर्तचिंतामण
अथ पर्युषितयात्रा योगचतुष्टयमनुष्टुभैद्रवजया चाहमृगे गत्वा शिवे स्थित्वादितौ गच्छञ्जयेद्रिपून् ॥ मैत्रे प्रस्थाय शाहि स्थित्वा मूले व्रजंस्तथा ॥ ५२ ॥ प्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेदैिवे || वस्वंत्यपुष्ये निजसीनि चैकरात्रोषितः क्ष्मां लभतेऽवनीशः ५३ मृगेति । प्रस्थायेति च ॥ मृगे स्वगृहाद्यातव्यदिगभिमुखं कस्यचिदिष्टस्य गृहे गत्वा प्रस्थाय आर्द्रायां तस्मिन्नेव गृहे स्थित्वोषित्वादितौ पुनर्वसौ गच्छन् तद्गृहं त्यक्त्वा ग्रामाद्वहिरेव गच्छन् रिपून् शत्रून् जयेत् अयमेको योगः । एवमेव मैत्रेऽनुराधायां प्रस्थाय शाक्रे ज्येष्ठायां स्थित्वा मूले व्रजन तथा जयेदित्यर्थः अयं द्वितीयो योगः । तथा हस्ते प्रस्थायानिलतक्षधिष्ण्ये स्वातीचित्रानक्षत्रद्वये स्थित्वा द्विदैवे विशाखायां जयार्थी भूपादिः प्रवसेद्देशांतरं गच्छेत् अयं तृतीयः । वस्वंत्यपुष्येषु निजसीनि स्वनगर प्रांते प्रस्थितः सन् यद्येकरात्रोषितः स्यात्तदाऽवनीशो राजा क्ष्मां भूमिं शत्रोरिति शेषः । लभते जयेन प्रामोतीत्यर्थः । अयं चतुर्थो योगः ॥ ५२ ॥ ५३ ॥
अथ समयबलमनुष्टुभाह
उषःकालो विना पूर्वी गोधूलिः पश्चिमां विना ॥
विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥ ५४ ॥ उषःकाल इति । सन्शब्दश्चरणचतुष्टयेऽपि संबध्यते । उषःकालः पूर्वी विना याने यात्रायां सन् । एवं सर्वत्र । वराहेण तु दिग्विशेषे समयविशेषे प्रशस्तोऽभिहितः । यथा पूर्वाह्णे तूत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत् । अपराह्ने व्रजेद्याम्यामर्धरात्रे तु पश्चिमामिति ॥ ५४ ॥
अथ लग्नादिभावानां संज्ञा अनुष्टुभाह
लग्नाद्भावाः क्रमाद्देह १ कोश२धानुष्कश्वाहनम् ४ ॥ मंत्रो५रि६ मर्ग ७ आयुश्च हृदयापारा १० गम ११व्ययाः १२ ।। ५५ ॥ लग्नाद्भावा इति ॥ हन्मनः । स्वांतं हृन्मानसं मन इत्यभिधानात् । आगमः प्राप्तिः अन्यत्स्पष्टम् । एवंविधसंज्ञाकथनप्रयोजनं तु क्रूरग्रहसाहित्ये तत्तद्भावानां पीडा । शुभग्रहसाहित्ये तत्तद्भावानां शुभमित्यर्थः ॥ ५९ ॥
अथ शालिन्या विशेषफलमाह
केंद्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापाख्यायषट्खेषु चंद्रः ॥ नेष्टो लग्नांत्यारिरंध्रे शनिः खेऽस्ते शुक्रो लग्नेट् नगांत्यारिरंध्रे ॥ ५६ ॥ केंद्रे कोण इति ॥ शुभग्रहाः यदि केंद्रे कोणे १, ४, ७, १०, ९, ९, स्युस्तदा
Aho! Shrutgyanam