________________
यात्राप्रकरणम् ।
१८१ . स्यात् । अथवा भूपयोगैर्जातकोक्तैराजयोगैर्यात्रालग्नस्थितैर्गमो मुनिभिर्विजयदः प्रोक्तः । जातके राजयोगा द्रष्टव्याः ॥ ४८ ॥
अथ दिक्स्वामिन उपजातिकयाहसूर्यः सितो भूमिसुतोऽथराहुः शनिः शशी ज्ञश्च बृहस्पतिश्च ॥ प्राच्यादितो दिक्षु विदिक्षु चापि दिशामधीशाः क्रमतः प्रदिष्टाः ॥
सूर्यः सित इति ॥ स्पष्टार्थम् ॥ ४९ ॥ अथ दिगीशप्रयोजनं तनुमध्याछंदसाह
केंद्रे दिगधीशे गच्छेदवनीशः ॥
लालाटिनि तस्मिन्नेयादरिसेनाम् ॥ ५० ॥ केंद्रे इति ॥ तस्मिन् दिगीशे लालाटिनि सति अरिसेनां नेयात् न गच्छेत् ॥ १० ॥ अथ लालाटियोगान् शार्दूलविक्रीडितेनाहप्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः कर्मस्थोऽथ तमो नवाष्टमगृहे सौरिस्तथा सप्तमे ॥ चंद्रः शत्रुगृहात्मजेऽपि च बुधः पातालगो गीष्पतिवित्तभ्रातृगृहे विलग्नसदनाल्लालाटिकाः कीर्तिताः ॥५१॥ प्राच्यादाविति ॥ प्राच्याद्यष्टदिक्षु क्रमेण विलग्नसदनात् एतेषु भावेषु सूर्यादिनहाः स्थिताश्चेत् । लालाटिकाः स्युरिति वाक्यार्थः । यथा तनौ लग्नस्थः तरणिः सूर्यः प्राच्यां गंतुर्लालाटिकः एवं भृगुसुतो लाभव्यये आग्नेय्यां कर्मस्थो भूसुतो दक्षिणस्याम् तमो नवाष्टमगृहे नैर्ऋत्याम् सौरिः सप्तमे पश्चिमायाम् चंद्रः शत्रुगृहात्मजे वायव्याम् बुधः पातालग उत्तरस्याम् गीष्पतिर्वित्तभ्रातृगृहे ईशान्यां गंतुर्लालाटिक इत्यर्थः कश्यपेन तु सूर्यराशिवशेन लालाटिका उक्तास्ते यथा । दिनेशाधिष्ठितो राशिर्यदा लग्नगतस्तदा । यातुर्मृत्युप्रदः प्राच्यां दिशि सूर्यो ललाटगः ॥ सूर्यस्य राशितस्तस्माहादशे लग्नगे गृहे । एकादशे वा आग्नेय्यां दिशि शुक्रो ललाटगः ॥ ललाटगः कुजो याम्ये दशमे लग्नगे गृहे । लग्नगे नवमे राशावष्टमे वापि नैऋते ।। ललाटगः सैहिकेयो यातुर्द्राङ्गिधनप्रदः । लग्नगे सप्तमे राशी शनिः प्रत्यग्ललाटगः ॥ षष्ठराशी लग्नगते पंचमे वापि चंद्रमाः । ललाटगो वायुदिाश यातुर्मत्युप्रदस्तदा ॥ चतुर्थराशौ लग्नस्थे बुधः सौम्ये ललाटगः । राशौ तृतीये लग्नस्थे द्वितीये चंद्रपूजितः ॥ ललाटगश्चंद्रमौलेर्दिशि यातुर्विनाशद इति । अत्र ललाटव्यतिरिक्त कंटकस्थाने यदि दिगधीशस्तिष्ठति तदा यात्रा शुभा अन्यथा ह्यशोभनेति तत्त्वम् ॥ ५१ ॥
Aho ! Shrutgyanam