________________
१८०
मुहूर्तचिंतामणी
स्वराशिलग्नाभ्यां अष्टमभवने स्वशत्रुराशेर्जन्मराशिलनाभ्यां षष्ठभवने तेषां स्वामिनो या - त्रालग्नगताः स्युर्यदा तदा राज्ञो मृतिप्रदाः ॥ ४९ ॥
अथान्यच्छुभलग्नं शालिन्याह
लग्ने चंद्रे वापि वर्गोत्तमस्थे यात्रा प्रोक्ता वांछितार्थैकदात्री ॥ अंभोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥ ४६ ॥
लग्ने चंद्र इति ॥ मीनकुंभविवर्जिते कस्मिंश्चिलने वर्गोत्तमनवांशस्थे अथवा चंद्रे वर्गोत्तमस्थे सति यात्रा वांछितार्थस्य मनोभीष्टार्थस्यैका अद्वितीया दात्री । अंभोराशाविति जलराशौ लग्नगते सति अथवा लग्नांतरे तदंशे जलराश्यंशे सति नौकायानं सर्वसिद्धिप्रदायि स्यात् ॥ ४६ ॥
अथान्यदिद्रवज्रयाह
दिग्द्वार लग्नगते प्रशस्ता यात्रार्थदात्री जयकारिणी च ॥ हानिं विनाशं रिपुतो भयं च कुर्यात्तथा दिक्प्रतिलोमलग्ने ॥४७॥ दिग्द्वारभे इति । पूर्वादिदिक्षु मेषाद्याः क्रमाद्दिग्द्वारराशयस्तेषु गंतव्यदिगवस्थितेषु समुत्था यात्रा प्रशस्ता । प्रशस्तत्वमाह । अर्थदात्री जयकारिणी चेति । यथा मेषः पूर्वस्याम् वृषो दक्षिणस्याम् मिथुनः पश्चिमायाम् कर्क उत्तरस्याम् एवं सिंहादयो धनुरादयश्च पूर्वादिषु ज्ञेयाः । हानिमिति दिक्प्रतिलोमल ने विपरीतदिगवस्थिते लग्ने । यथा पश्चिमायां मेषः उत्तरस्यां वृषः पूर्वस्यां मिथुनः दक्षिणस्यां कर्कः एवं पुनः पश्विमादिषु सिंहादयो धनुरादयश्च ज्ञेयाः । तादृशे लग्ने गंतुः यात्रा हानिं द्रव्यनाशं शत्रुतो भयं च कुर्यात् । दिग्द्वारभे लग्नगते यात्रार्थविजयप्रदा । लग्ने दिक्प्रतिलोमे सा हानिदा शत्रुभीतिदेति वराहोक्तेः ॥ ४७ ॥
अथ शुभलग्नानि वसंततिलकयाह
राशिः स्वजन्मसमये शुभसंयुतो यो यः स्वारिभान्निधनगोऽपि च वेशिसंज्ञः । लग्नोपगः स गमने जयदोऽथ भूपयोगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥ ४८ ॥
राशिरिति ॥ गंतुः पुंसः स्वजन्मसमये यो राशिः शुभग्रहैश्चंद्रबुधगुरुशुकैः संयुतोऽस्ति स राशिर्यात्रालग्नोपगः स्यात् । अथवा स्वारिभात् स्वशत्रुजन्मराशिजन्मलग्नादष्टमो यो राशिः स चेद्यात्रालग्नोपगतः स्यात् । अथवा यो राशिर्वेशिसंज्ञः जन्मसमये सूर्याक्रांतराशेर्द्वितीयो राशिर्वेशिसंज्ञः । स चेद्यात्रालग्नोपगः स्यात्तदा गमने जयदः
Aho! Shrutgyanam