________________
यात्राप्रकरणम् ।
१७९
क्षिणभागे च दुष्टो न स्यात् । मध्येमार्गमिति । सुमुहूर्तप्रस्थितोऽपि राजा मध्येमार्ग मार्ग - मध्ये यदि शुक्रास्तो भवेत्तावत्कालं तस्मिन्नेव प्रयाणे तिष्ठेत् यावच्छुक्रोदयो भवेत् यदि गच्छतो राज्ञो दैवात्संमुखः शुक्रश्चेत्तावदस्य शुक्रस्य संमुखत्वेऽपि तस्मिन्नेव प्रयाणे तिष्ठेत् उपलक्षणत्वाद्दुरावप्येवंविधे द्रष्टव्यम् । पराशरः । जीवः शशांकः शुक्रो वा मार्गमध्येऽस्तगो यदि । तत्रैव निवसेद्राजा यावदभ्युदितो भवेदिति || मार्गमध्ये बुधास्ते न दोषः । यदा तु मार्गमध्ये बुधोदयो भवेत्स च पुनः संमुखो भवेत्तदा तु पुनर्दोष एव । वसिष्ठः । संमुखश्चंद्रजो यत्र मार्गमध्योदितो यदि । यावदस्तं गते तस्मिंस्तावत्तत्रैव संवसेदिति ॥ ४२ ॥ अथ निषिद्धलन मनुष्टुभाह
कुंभकुंभांशको त्याज्यौ सर्वथा यत्नतो बुधैः । तत्र प्रयातुर्नृपतेरर्थनाशः पदेपदे ।। ४३ । कुंभकुंभांशकाविति ॥ स्पष्टोऽर्थः ॥ ४३ ॥
अथान्यन्मंजुभाषिण्याह
अथ मीनलग्न उतवा तदंशके चलितस्य वक्रमिह वर्त्म जायते । जनिलग्नजन्मभपती शुभग्रहौ भवतस्तदा तदुद्ये शुभो गमः ॥ ४४ ॥
अथ मीनलग्न इति ॥ मीनलग्ने लग्नांतरे वा मीनांशके चलितस्य राज्ञो वर्त्म वक्रं स्यात् । जनीति जनिर्जन्मकालीनं लग्नं जन्मभं जन्मराशिः तयोर्जन्मलग्नराश्योः पती स्वामिनौ शुभग्रहौ सौम्यग्रहौ चेदुदये लग्ने भवतस्तदा गमो गमनं शुभः स्यात् । जन्मलग्नं जन्मराशिव यात्रालग्नगं शुभमिति प्रागेवाभिहितम् । जननराशितनू यदि लग्नग इति । अर्थाज्जन्मलग्नजन्मराशिस्वामिनी पापग्रहौ यात्रालग्ने स्यातां तदा तादृशे लग्ने गमनमशुभफलमित्यर्थः । वसिष्ठः । जन्मराशौ लग्नगते तदीशे वा विलनगे । अभीष्टफलदा यात्रा राशीशश्रेच्छुभग्रहः ॥ वृद्धनारदेन । जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः । तयोरुपचयस्थानं यदि लग्नगतं शुभमिति जन्मराशिर्यात्रालग्ने निषिद्ध उक्तः स जन्मराशेः पापग्रहस्वामित्वे ज्ञेयः । शुभस्वामित्वे तु प्रागुक्तवसिष्ठवाक्यं स्वरसं स्यात् । एवं जन्मलग्नोदयः शुभ इत्यत्रापि जन्मलग्नस्य शुभस्वामित्वे शुभफलता न पापस्वामित्वे इति व्याख्येयम् ॥ ४४ ॥ अथान्यद्रथोद्धतयाहजन्मराशिततोऽष्टमेऽथवा स्वारिभाव रिपुभे तनुस्थिते ॥ लग्नगास्तदधिपा यदाथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ।। ४५ ।।
जन्मराशितनुत इति । स्वजन्मराशेर्जन्मलग्नाच्च वाष्टमे राशौ लग्नस्थिते सति तथारिभात् जिगमिषतः शत्रोर्भात् राशेर्लग्नाच्च रिपुभे षष्ठराशौ लग्नस्थिते सति अथवा
Aho! Shrutgyanam