________________
१७८
मुहूर्तचिंतामणौ कारयेत्प्रतिमां भृगोः । लिखेदष्टदलं पद्मं कांस्यपात्रे च तंडुलैः ॥ शुक्लसूक्ष्मांबरैष्टय प्रतिमां तत्र पूजयेत् । शुक्लपुष्पाक्षतैगमुक्ताहारौविचित्रितैः ॥ उपचाराणि कार्याणि शुक्र ते अन्यदित्यचा । तन्मंत्रेण जपं कुर्यात्सम्यगष्टोत्तरं शतम् ॥ कर्माते तेन मंत्रेण भक्त्या चार्य प्रदापयेत । श्वेतगंधाक्षतैः पुष्पैः क्षीरमिश्रेण वारिणा ॥ दैत्यमंत्री दिवादी चोशना भार्गवः कविः । श्वेतोऽथ मंडली काव्यो विधिस्थो भृगवे नमः ॥ दत्वेत्यऱ्या प्रयत्नेन प्रार्थयेदेव भक्तितः । अनेनैव तु मंत्रेण प्रांजलिः प्रणतः स्थितः ॥ त्वत्पूजयानया शुक्र संमुखत्वसमुद्भवम् । दोषं विनाशय क्षिप्रं रक्ष मां तेजसां निधे ॥ इति प्रार्थ्य प्रयत्नेन प्रतिमा भूषणान्विता । दैवज्ञायैव दातव्या श्वेताश्वसहितैव सा ॥ शिष्टेभ्यो दक्षिणां दद्याद्यथावित्तानुसारतः । ब्राह्मणान् भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥ इतरेषां ग्रहाणां च पूजां कुर्यात्प्रयत्नतः । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥ दीपिकायां तु दानमेवोक्तम् । सितमश्वं सितच्छत्रं हेममौक्तिकसंयुतम् । ततो द्विजातये दद्यात्प्रतिशुक्रप्रशांतय इति ॥ ४० ॥
अथ वक्रास्तादिदोषं सापवादमुपजात्याहवक्रास्तनीचोपगते भृगोः सुते राजा व्रजन्याति वशं हि विद्विषाम् । बुधोऽनुकूलो यदि तत्र संचलन रिपूञ्जयेन्नैव जयः प्रतीदुजे ॥४१॥
वक्रास्तेति ॥ भृगोः सुते शुक्रे वक्रोपगते अस्तोपगते नीचोपगते च उपलक्षणत्वाद्वयुद्धपराजिते वर्णरहिते वा सति राजा परराष्ट्रं व्रजन् सन् हि निश्चयेन विद्विषां शतृणां वशं याति बद्धो भवतीत्यर्थः । भरद्वाजः । विवणे विजिते नीचे वक्रिते वा सितेऽस्तगे । शत्रुक्षेत्रगते वापि तदंशे तन्निरीक्षिते ॥ भौमांशे भौमसंयुक्ते मंदांशे मंदसंयुते । यात्रां नैव प्रकुर्वीत लक्ष्म्यायुर्बलहानिदेति । बुध इति । तत्र शुक्रास्ते यदि बुधोऽनुकूलः पृष्ठदिक्संस्थो भवेत्तदा संचलन् सन् राजा रिपून शत्रून् जयेत् । नैवेति प्रतींदुजे बुधे संमुखे सति गंतू राज्ञो नैव जयः किंतु पराजयः । अयं तु प्रतिशुक्रविचारो नृणां प्रथमगमने राज्ञां तु समरयात्रायामाहुः । रैभ्यः । प्रतिशुक्रादिदोषोऽयं नूतने गमने नृणाम् । राज्ञां विजययात्रायां नान्यथा दोषमावहेदिति ॥ ४१ ॥ __ अथ विशेष शालिन्याहयावच्चंद्रः पूषभात्कृत्तिकाद्ये पादे शुक्रोंऽधो न दुष्टोऽग्रदक्षे । मध्ये मार्ग भार्गवास्तेऽपि राजा तावत्तिष्ठेत्संमुखत्वेऽपि तस्य ॥४२॥
यावच्चंद्र इति ॥ चंद्रो यदा पूषभाद्रेवतीनक्षत्रादारभ्य कृत्तिकाद्ये पादे रेवत्यश्विनीभरणीकृत्तिकाप्रथमचरणे यावत्तिष्ठति तावच्छुक्रोऽधो ज्ञेयः दृष्टोऽपि शुको दर्शनकार्य न करोतीत्यर्थः । तदेवाह । न दुष्ट इति । अंधो यदा तदा अग्रे संमुखे दक्षे द
Aho ! Shrutgyanam