________________
यात्राप्रकरणम् ।
१७७ स्तमैत्राणि पौष्णवैष्णवसौम्यभम् । वासवं सर्वदिक्ष्वाशु यात्रायां शोभनानि होति । वराहः। सर्वद्वारिकसंज्ञितानि गुरुमं हस्ताश्चिमैत्राणि च श्रेष्ठान्यैदवपौष्णविष्णुवसुभान्याद्यैः सहाष्टौ सदेति । वक्री ग्रह इति । वक्री ग्रहो यदि केंद्रगः स्यात्स गमे यात्रायां निषिद्धः । अथवाऽस्य वक्रीग्रहस्य लग्ने वर्गः षडुर्गश्चेत्सोऽपि गमने निषिद्धः । वास्य वक्रीग्रहस्य दिनं वारोऽपि गमने निषिद्धम् ॥ ३८ ॥ __ अथायनशूलमिंद्रवजयाहसौम्यायने सूर्यविधू तदोत्तरां प्राची व्रजेत्तौ यदि दक्षिणायने ॥ प्रत्यग्यमाशां च तयोदिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथाभवेत्॥
सौम्यायन इति ॥ यदि सूर्यचंद्रौ सौम्यायने उत्तरायणगतौ स्यातां तदा उत्तरां प्राची वा व्रजेत् । तद्दिङ्मुखा यात्रा शुभेत्यर्थः । यदि तु रविचंद्रौ दक्षिणायनगतौ स्यातां तदा प्रतीची दक्षिणां वा व्रजेत् । अथ तयोभिन्नायनत्वे अयनभेदे सति दिवानिशं व्रजेत् । यथा । सूर्यो यस्मिन्नयने तां दिशं दिवा व्रजेत् । चंद्रो यस्मिन्नयने तां दिशं रात्रौ यायात् । अत्रोत्तरस्यां पूर्वस्या अंतर्भावः दक्षिणस्यां पश्चिमाया इति । रत्नकोशे । दिनकरकरप्रतप्तां मकरादावुत्तरां च पूर्वी च । यायाच्च कर्कटादौ याम्यामाशां प्रतीची चेति । अथान्यथा चेत्कुर्यात्तदा वधो मरणं भवेत् । भिन्नायनत्वे सति सूर्यो यस्मिन्नयने तां दिशं यदि रात्रौ गच्छेत् चंद्रो यस्मिन्नयने तां दिवा गच्छेत्तदा यातुर्वधो भवेदित्यर्थः ॥ ३९ ॥ __ अथ संमुखशुक्रदोषमुपजात्याहउदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुम्भसंघे ॥ त्रिधोच्यते संमुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ॥४०॥ - उदेतीति ॥ शुक्रो यस्यां दिशि प्राच्या प्रतीच्यां वा कालवशेनोदयं करोति तत्र गंतुः पुंसः शुक्रः संमुखः । अयमेकः प्रकारः । अथवा गोलभ्रमवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा यदि याति गच्छति तत्र गंतुः पुंसः शुक्रः संमुखः । अयमेकः प्रकारः । अथवा गोलभ्रमवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा यदि याति गच्छति तत्र गंतुः पुंसः संमुखः शुक्रः स्यात् । अयं द्वितीयः प्रकारः । अथ यत्र ककुब्भसंघे प्राच्यादिदिशि कृत्तिकादिन्यासवशेन यदिङ्नक्षत्रे चरति तत्र दिशि गंतुः संमुखः शुक्रः स्यादित्ययं तृतीयः प्रकारः । अत्रिः । यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यहारभेषु विचरेत्रिविधं प्रतिभार्गवमिति । यत्रोदित इति । यस्यां दिश्युदितः शुक्रो हुश्यते तां दिशमेव न गच्छेत् । अन्यदिश्यपि यथासंभवं न यायात् । मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजय इति नारदोक्तेः । अवश्यकर्तव्ये गमने शांतिमाह वसिष्ठः । भृगुलग्ने भृगोवीरे भृगुवर्ग भृगूदये । उपोष्य भृगुवारेऽपि यावच्छुक्रोदयं प्रति । रजतेनैव शुद्धेन
Aho ! Shrutgyanam