________________
१७६
मुहूर्तचिंतामण
दयस्थो लिख्यते । इंद्रवायुयमरुद्रतोयाग्निशशिनैर्ऋते । यामार्धमुदितो राहुर्भ्रमत्येवं दिग
ष्टके दति ॥ ३५ ॥
अथ परिघदंडाख्यं दोषमनुष्टुभाह
पूर्वादिषु चतुर्दिक्षु सप्तसप्तानलर्क्षतः ॥ वायव्याग्नेयदिक्संस्थं पारिघं नैव लंघयेत् ॥ २६ ॥
पूर्वादिष्विति ।। अनलर्क्षतः कृत्तिकातः सप्त भानि पूर्वस्याम् । मघातः सप्त या - म्यायाम् । अनुराधातः सप्त पश्चिमायाम् । धनिष्ठातः सप्त भान्युत्तरस्यां रेखास्थिति सर्वत्र वाक्यशेषः । तत्र वायव्याग्नेयदिगुपनिबद्धरेखापरिघो दंड: स्यात्तं सर्वथा नोलंघयेत् । तत्र यवनेश्वरः । प्राचीमुदग्द्वारिभिरत्र यायात्प्राग्द्वारिभिचोडुभिरप्युदीचीम् । तथैव याम्यामपराश्रितैर्भेर्याम्याश्रयैश्वाप्यपरां प्रयायादिति ॥ ३६ ॥
अथ विदिक्षु गमे नक्षत्रातिदेशमावश्यककृत्ये निद्यदंडापवादं च वसंततिलकयाहअग्नेर्दशं नृप इयात्पुरुहूतदिग्भैरेवं प्रदक्षिणगता विदिशोऽथ कृत्ये ॥ आवश्यकेऽपि परिघं प्रविलंघ्य गच्छे
च्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥ ३७ ॥
अग्नेदिशमिति ॥ नृपः पुरुहूतदिक् प्राची तत्स्थैः कृत्तिकादिसप्त नक्षत्रैः अग्नेदिशमाग्नेयीमियाद्गच्छेत् । एवमनेन प्रकारेण प्रदक्षिणगताः सृष्टिमार्गेण स्थिता विदिशो नैर्ऋत्यादीर्गच्छेत् । यथा । मघादिसप्तभिनैर्ऋत्याम् अनुराधादिसप्तभिर्वायव्यां धनिष्ठादिसप्तभिरेशानीं गच्छेदित्यर्थः । अथेति आवश्यके कृत्ये कर्तव्ये परिघदंडमपि लंघयित्वा नृपो गच्छेत् । परंतु शूलं वारशूलं नक्षत्रशूलं विहाय त्यक्त्वा यदि दिक्तनशुद्धिरस्ति पूर्वादिदिक्षु मेषादयस्त्रिरावृत्त्या दिग्राशयः स्युः । क्रमशो मेषाद्या एव तस्यां तस्यां दिशि दिग्लग्नशब्देन व्यवह्नियंते । तेषां शुद्धिः शुभफलदातृग्रहानुकूल्यसाहित्यं स्यात् । दिग्राशीनाह नारदः । दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनरिति ॥ ३७ ॥
1
अन्यदपींद्रवज्रयाह
मैत्रार्कपुष्याश्विनभैनिरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः ॥ वक्री ग्रहः केंद्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमे निषिद्धम् ||३८||
मैत्रार्केति ॥ अनुराधाहस्तपुण्याश्विनी नक्षत्रैः सर्वासु दिशासु चतुर्दिक्षु तज्ज्ञैज्र्ज्योतिषिकैर्यात्रा शुभा निगदिता । यस्तु बालिकाविवेकादौ प्रागादिषु श्रवणाश्विपुष्ग्रहस्तानां त्याग उक्तः स निर्मूलत्वादुपेक्ष्यः । क्वचिदष्टौ सर्वदिग्द्वारकाण्युक्तानि । गुरुः । पुष्याश्विह
Aho! Shrutgyanam