________________
यात्राप्रकरणम् ।
अथ घातनक्षत्राण्यनुष्टुभाह
मघाकरस्वातिमैत्रमूलश्रुत्यंबुपांत्यभम् ॥
याम्यब्राह्मेशसापं च मेषादेर्धातभं न सत् ॥ ३२ ॥ मधेति ॥ स्पष्टार्थम् एतदपि यात्रादौ न शस्तम् ॥ ३२ ॥ अथ घातलग्नान्याह
भूमि१व्द्य२०ध्य४द्रिदिक्१० सूर्या१२गाष्टिांके९शा१ग्निश्सायकाः ५॥
मेषादिघातलग्नानि यात्रायां वर्जयेत्सूधीः ॥ ३३ ॥ भूव्द्यब्धीति ॥ स्पष्टार्थम् । तदपि यात्रायां वय॑म् ॥ ३३ ॥
नवभूम्यः शिव११वहयो३ऽक्ष विश्वे१३ऽर्क१२कृताः४शक १४रसादस्तुरंगतिथ्यः १५ ॥ द्विरदिशो१०मा३०वसवाश्च पूर्वतःस्यु
स्तिथयः संमुखवामगा न शस्ताः ॥ ३४ ॥ नवभूम्य इति ॥ एतास्तिथयः पूर्वतः पूर्वदिशमारभ्य अष्टदिक्षु ज्ञेयाः । यथा । पूर्वस्यां नवभूम्यः नवमी प्रतिपच्च आग्नेय्यां शिववह्नयः एकादशी तृतीया च । एवमग्रेऽपि । एतास्तिथयो योगिन्य इति जीर्णास्तास्तिथयः संमुखा वामगा न शस्ताः । यथा । प्राच्यां गंतुः प्रतिपत्संमुखी दक्षिणां गंतुर्वामगा प्रतीच्यां गंतुः पृष्ठगा उदीच्यां गंतुईक्षिणा एवं सर्वासु दिक्षु सर्वास्तिथयो विचार्यास्तत्र संमुख्यो वामगाश्च तिथयो न शुभाः। अर्थाद्दक्षिणाः पृष्ठगाश्च शुभाः । उक्तं च । पृष्ठतो दक्षिणे वापि योगिनी गमने हिता। वामसंमुखयोनेष्टा वायुमेवं विचिंतयेदिति ॥ ३४ ॥
अथ कालपाशयोगौ शालिन्याहकौबेरीतो वैपरीत्येन कालो वारेऽर्काये समुंखे तस्य पाशः ॥ रात्रावेतौ वैपरीत्येन गण्यौ यात्रायुद्धे संमुखे वर्जनीयौ ॥३५॥
कौबेरीत इति ॥ कौबेरी उत्तरा दिक् तस्याः विपरीतदिक्षु अर्काद्ये वारे कालः स्यात् । तद्यथा । रवावुत्तरदिशि कालः दक्षिणे पाश इत्यर्थः । चंद्रे वायव्यां कालः आनेय्यां पाशः एवं भौमादिष्वपि रात्रौ कालदिशि पाश इति वैपरीत्यं ज्ञेयम् । एतौ यात्रायुद्धादिषु संमुखे वज्यौ । उक्तं च खरोदये । वारोत्थः पूर्वदिग्भागे ततः सव्येन मंदगः । यत्रस्थस्तब कालः स्यात्पाशस्तस्य तु संमुखः ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः । यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभन इति । प्रसंगादर्धयामराहुरपि स्वरोद
Aho ! Shrutgyanam