________________
मुहूर्तचिंतामणी
भूपंचांकांगदिग्वह्निसप्तवेदाष्टेशाकश्च घाताख्यचंद्रः ॥ मेषादीनां राजसेवाविवादे वर्ज्या युद्धाद्ये च नान्यत्र वर्ज्यः ॥ २७ ॥ आग्नेयत्वाष्ट्रजलपपित्र्यवासवरौद्रभे ।
१७४
मूलब्राह्माजपादक्षै पित्र्यमूलाजभे क्रमात् ॥ २८ ॥ रूपट्ट्यग्यग्निश्रूरामद्व्यन्ध्यश्यब्धियुगाग्नयः ॥
घातचंद्रे धिष्ण्यपादा मेषाद्वर्ज्या मनीषिभिः ॥ २९ ॥ भूपंचेति । आग्नेयेति । रूपद्व्यग्नीति च ॥ मेषादिराशीनां भूपंचांकेत्यादि - को घातचंद्रो ज्ञेयः । यथा मेषस्य प्रथमो मेष एव वृषस्य पंचमः कन्यास्थः मिथुनस्य नवमः कर्कस्य द्वितीयः सिंहस्य षष्ठः कन्याया दशमः तुलायास्तृतीयः वृश्चिकस्य सप्तमः धनुषश्चतुर्थः मकरस्याष्टमः कुंभस्यैकादशः मनिस्य द्वादशः स घातचंद्रो राजसेवायां विवादे प्रतिवादिना सह कलहे युद्धाद्ये आदिशब्दान्मृगयादिषु वर्ज्यः । अन्यत्र विवाहान्नप्राशनादिमंगलकृत्ये न वर्ज्यः । उक्तं च । युद्धे चैव विवादे च कुमारीपूजने तथा । राजसेवावाहनादौ घातचंद्र विवर्जयेत् ॥ तीर्थयात्राविवाहान्नप्राशनोपनयादिषु । मांगल्यसर्वकार्येषु घातचंद्रं न चिंतयेत् ॥ अत्र लाघवार्थं भ्रातृपुत्रगोविंदपद्यम् । मेषकन्याघटहरिनक्रयुग्मधनुर्वृषाः । मीनसिंहधनुः कुंभा घातचंद्रा अजादित इति । घातचंद्रे मेषादिराशिषु कृत्तिकादिभानां चरणा एते वर्ज्या इति केचिद्वति ॥ २७ ॥ २८ ॥ २९ ॥
1
घाततिथीरुपजातिकयाह
गोत्रीझ घाततिथिस्तु पूर्णा भद्रा नृयुक्कर्कटकेऽथ नंदा ॥ htजयोटे च रिक्ता जया धनुः कुंभहरौ न शस्ताः ॥ २० ॥
गोत्रीति ॥ गौः वृषः स्त्री कन्या झषो मीनः एतद्राशिमति नरे पूर्णा पंचमी दशमी पंचदशी च घाततिथिः नृयुग्मिथुनं कर्कटकः कर्कस्तयोः भद्रा द्वितीया सप्तमी द्वादशी च तिथिः कौप्र्यो वृश्चिकः अजो मेषः एतयोर्नदा प्रतिपत्षष्ठयेकादशी च तिथिः नक्रधटे मकतुलयोः रिक्ता चतुर्थी नवमी चतुर्दशी घाततिथिः । धनु. कुंभसिंहानां जया तृतीयाष्टमी त्रयोदशी च घाततिथिः । एते घाततिथयो यात्रादौ न शस्ताः ॥ ३० ॥
घातवारान् शालिन्याह
न भौमो गो हरिस्त्रीषु मंदचंद्रो द्वंद्वेsaऽजभे ज्ञश्च कर्के ॥ शुक्रः कोदंडालिमीनेषु कुंभे जूके जीवो घातवारा न शस्ताः ॥३१ ॥
न भौम इति ॥ मकरराशिमति पुरुषे भौमो घातवारः वृषसिंहकन्यासु मंदः शनिर्घातवारः द्वंद्वे मिथुने चंद्र : अजे मेषेऽर्कः कर्के बुधः धनुर्मीनरश्चिकेषु शुक्रसरः जूकस्तुला कुंभतुलयोर्जीवो गुरुर्घातवार इत्यर्थः । घातवारा अपि यात्रादौ न शस्ताः ॥ ३१॥
Aho! Shrutgyanam