________________
यात्राप्रकरणम् ।
अथ सर्वांकज्ञानं वसंततिलकयाह
तिथ्यृक्षवारयुतिरद्विगजाग्नितष्ठा स्थानत्रयेss वियति प्रथमेऽतिदुःखी ॥ मध्ये धनक्षतिरथो चरमे मृतिः स्यात्स्थानत्रयेंकयुजि सोख्यजयौ निरुक्तौ ॥ २४ ॥
तिथ्यृक्षेति ॥ तिथयोऽत्र शुक्लप्रतिपदादितो ग्राह्याः । तत्र तिथिनक्षत्रवाणां युतिः स्थानत्रये स्थाप्या क्रमेण सप्तभिरष्टभिस्त्रिभिश्व तष्टा भक्तावशिष्टा सती प्रथमस्थाने वियति शून्ये सति अतिदुःखी यात्रा कर्ता स्यात् । मध्ये द्वितीयस्थाने धननाशः । चरमे तृतीयस्थाने शून्यं मृत्युः स्यात् स्थानत्रयेऽकयुजि अंकयुतौ सौख्यजयौ भवेताम् ॥ २४ ॥ अथाडलभ्रमणे प्रमाणिकयाह
रखेर्भतोऽब्जभोन्मितिर्नगावशेषिता झगा ॥
महाडलो न शस्यते त्रिषमिताभ्रमो भवेत् ॥
१७३
२५ ॥
वेर्भत इति ॥ सूर्यनक्षत्रात् अब्जभस्य चंद्रभस्योन्मितिर्गणना कार्या सा नगैः सप्तभिरवशेषिता सती द्व्यगा द्विशेषमिता सप्तशेषमिता वा भवेत्तदा महाडलो दोषः स्यात् स न शस्यते । प्रागुक्तप्रकारेण यदि त्रिषण्मता त्रिशेषमिता षट्शेषमिता वा स्यात्तदा भ्रमो भ्रमणाख्यो दोषः स्यात् । सोऽपि न शस्यते एतन्निर्मूलम् । तत्र भ्रमणे यात्रामेव त्यजंति आडले बहूनि कार्याणि त्यजति । उक्तं च । यात्रायंत्र हलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबंधनविधौ पापदुर्ग । अश्वेभष्ट्ररथाधिरोहणविधौ त्याज्यं सदैवाडलं यत्नान्नात्र शुभेषु मंगलविधौ दोषो न तस्य क्वचिदिति ॥ २५ ॥
अथ हैवराख्यं योगमुपजातिकयाह
1
शशांक सूर्यभतोऽत्र गण्यं पक्षादितिथ्या दिनवासरेण ॥ युतं नवा नगशेषकं चेत्स्याद्वैवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥ शशांकभमिति ॥ स्पष्टार्थम् । प्रसंगात् घबाडमपि सूर्यमाणयेच्चांद्र त्रिगुणं तिथिसंयुतम् । सप्तभिस्तु हरेद्वागं त्रिशेषं स्याद्वबाडकम् । एतच्च हैवराच्छुभं ज्ञेयम् । एतत्सर्वं दाक्षिणात्या विचारयन्तीति । अत्र प्रसंगानंथांतरस्थसंग्रहः । सूर्यभाद्रणयेच्चां तिथिवारं च मिश्रितम् । सप्तभिस्तु हरेद्भागं पंचशेषं तु टेलकम् || सूर्य भागणयेच्चाद्रं तिथिवारं च मिश्रितम् । अर्कसंख्यैर्हरेद्भागं नवशेषं तु गौरवम् ॥ प्रवेशे गौरवं दद्यान्निर्गमे हैवरं तथा । तस्करे टेलकं दद्याद्धबाडं सर्वकर्मसु । इति ज्योतिर्निर्बंधे ॥ २६ ॥ • अथ घातचंद्र शालिन्या तत्परिहारं चानुष्टुब्द्वयेनाह
Aho! Shrutgyanam