Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 193
________________ यात्राप्रकरणम् । अथ सर्वांकज्ञानं वसंततिलकयाह तिथ्यृक्षवारयुतिरद्विगजाग्नितष्ठा स्थानत्रयेss वियति प्रथमेऽतिदुःखी ॥ मध्ये धनक्षतिरथो चरमे मृतिः स्यात्स्थानत्रयेंकयुजि सोख्यजयौ निरुक्तौ ॥ २४ ॥ तिथ्यृक्षेति ॥ तिथयोऽत्र शुक्लप्रतिपदादितो ग्राह्याः । तत्र तिथिनक्षत्रवाणां युतिः स्थानत्रये स्थाप्या क्रमेण सप्तभिरष्टभिस्त्रिभिश्व तष्टा भक्तावशिष्टा सती प्रथमस्थाने वियति शून्ये सति अतिदुःखी यात्रा कर्ता स्यात् । मध्ये द्वितीयस्थाने धननाशः । चरमे तृतीयस्थाने शून्यं मृत्युः स्यात् स्थानत्रयेऽकयुजि अंकयुतौ सौख्यजयौ भवेताम् ॥ २४ ॥ अथाडलभ्रमणे प्रमाणिकयाह रखेर्भतोऽब्जभोन्मितिर्नगावशेषिता झगा ॥ महाडलो न शस्यते त्रिषमिताभ्रमो भवेत् ॥ १७३ २५ ॥ वेर्भत इति ॥ सूर्यनक्षत्रात् अब्जभस्य चंद्रभस्योन्मितिर्गणना कार्या सा नगैः सप्तभिरवशेषिता सती द्व्यगा द्विशेषमिता सप्तशेषमिता वा भवेत्तदा महाडलो दोषः स्यात् स न शस्यते । प्रागुक्तप्रकारेण यदि त्रिषण्मता त्रिशेषमिता षट्शेषमिता वा स्यात्तदा भ्रमो भ्रमणाख्यो दोषः स्यात् । सोऽपि न शस्यते एतन्निर्मूलम् । तत्र भ्रमणे यात्रामेव त्यजंति आडले बहूनि कार्याणि त्यजति । उक्तं च । यात्रायंत्र हलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबंधनविधौ पापदुर्ग । अश्वेभष्ट्ररथाधिरोहणविधौ त्याज्यं सदैवाडलं यत्नान्नात्र शुभेषु मंगलविधौ दोषो न तस्य क्वचिदिति ॥ २५ ॥ अथ हैवराख्यं योगमुपजातिकयाह 1 शशांक सूर्यभतोऽत्र गण्यं पक्षादितिथ्या दिनवासरेण ॥ युतं नवा नगशेषकं चेत्स्याद्वैवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥ शशांकभमिति ॥ स्पष्टार्थम् । प्रसंगात् घबाडमपि सूर्यमाणयेच्चांद्र त्रिगुणं तिथिसंयुतम् । सप्तभिस्तु हरेद्वागं त्रिशेषं स्याद्वबाडकम् । एतच्च हैवराच्छुभं ज्ञेयम् । एतत्सर्वं दाक्षिणात्या विचारयन्तीति । अत्र प्रसंगानंथांतरस्थसंग्रहः । सूर्यभाद्रणयेच्चां तिथिवारं च मिश्रितम् । सप्तभिस्तु हरेद्भागं पंचशेषं तु टेलकम् || सूर्य भागणयेच्चाद्रं तिथिवारं च मिश्रितम् । अर्कसंख्यैर्हरेद्भागं नवशेषं तु गौरवम् ॥ प्रवेशे गौरवं दद्यान्निर्गमे हैवरं तथा । तस्करे टेलकं दद्याद्धबाडं सर्वकर्मसु । इति ज्योतिर्निर्बंधे ॥ २६ ॥ • अथ घातचंद्र शालिन्या तत्परिहारं चानुष्टुब्द्वयेनाह Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248