Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 196
________________ १७६ मुहूर्तचिंतामण दयस्थो लिख्यते । इंद्रवायुयमरुद्रतोयाग्निशशिनैर्ऋते । यामार्धमुदितो राहुर्भ्रमत्येवं दिग ष्टके दति ॥ ३५ ॥ अथ परिघदंडाख्यं दोषमनुष्टुभाह पूर्वादिषु चतुर्दिक्षु सप्तसप्तानलर्क्षतः ॥ वायव्याग्नेयदिक्संस्थं पारिघं नैव लंघयेत् ॥ २६ ॥ पूर्वादिष्विति ।। अनलर्क्षतः कृत्तिकातः सप्त भानि पूर्वस्याम् । मघातः सप्त या - म्यायाम् । अनुराधातः सप्त पश्चिमायाम् । धनिष्ठातः सप्त भान्युत्तरस्यां रेखास्थिति सर्वत्र वाक्यशेषः । तत्र वायव्याग्नेयदिगुपनिबद्धरेखापरिघो दंड: स्यात्तं सर्वथा नोलंघयेत् । तत्र यवनेश्वरः । प्राचीमुदग्द्वारिभिरत्र यायात्प्राग्द्वारिभिचोडुभिरप्युदीचीम् । तथैव याम्यामपराश्रितैर्भेर्याम्याश्रयैश्वाप्यपरां प्रयायादिति ॥ ३६ ॥ अथ विदिक्षु गमे नक्षत्रातिदेशमावश्यककृत्ये निद्यदंडापवादं च वसंततिलकयाहअग्नेर्दशं नृप इयात्पुरुहूतदिग्भैरेवं प्रदक्षिणगता विदिशोऽथ कृत्ये ॥ आवश्यकेऽपि परिघं प्रविलंघ्य गच्छे च्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥ ३७ ॥ अग्नेदिशमिति ॥ नृपः पुरुहूतदिक् प्राची तत्स्थैः कृत्तिकादिसप्त नक्षत्रैः अग्नेदिशमाग्नेयीमियाद्गच्छेत् । एवमनेन प्रकारेण प्रदक्षिणगताः सृष्टिमार्गेण स्थिता विदिशो नैर्ऋत्यादीर्गच्छेत् । यथा । मघादिसप्तभिनैर्ऋत्याम् अनुराधादिसप्तभिर्वायव्यां धनिष्ठादिसप्तभिरेशानीं गच्छेदित्यर्थः । अथेति आवश्यके कृत्ये कर्तव्ये परिघदंडमपि लंघयित्वा नृपो गच्छेत् । परंतु शूलं वारशूलं नक्षत्रशूलं विहाय त्यक्त्वा यदि दिक्तनशुद्धिरस्ति पूर्वादिदिक्षु मेषादयस्त्रिरावृत्त्या दिग्राशयः स्युः । क्रमशो मेषाद्या एव तस्यां तस्यां दिशि दिग्लग्नशब्देन व्यवह्नियंते । तेषां शुद्धिः शुभफलदातृग्रहानुकूल्यसाहित्यं स्यात् । दिग्राशीनाह नारदः । दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनरिति ॥ ३७ ॥ 1 अन्यदपींद्रवज्रयाह मैत्रार्कपुष्याश्विनभैनिरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः ॥ वक्री ग्रहः केंद्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमे निषिद्धम् ||३८|| मैत्रार्केति ॥ अनुराधाहस्तपुण्याश्विनी नक्षत्रैः सर्वासु दिशासु चतुर्दिक्षु तज्ज्ञैज्र्ज्योतिषिकैर्यात्रा शुभा निगदिता । यस्तु बालिकाविवेकादौ प्रागादिषु श्रवणाश्विपुष्ग्रहस्तानां त्याग उक्तः स निर्मूलत्वादुपेक्ष्यः । क्वचिदष्टौ सर्वदिग्द्वारकाण्युक्तानि । गुरुः । पुष्याश्विह Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248