Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 197
________________ यात्राप्रकरणम् । १७७ स्तमैत्राणि पौष्णवैष्णवसौम्यभम् । वासवं सर्वदिक्ष्वाशु यात्रायां शोभनानि होति । वराहः। सर्वद्वारिकसंज्ञितानि गुरुमं हस्ताश्चिमैत्राणि च श्रेष्ठान्यैदवपौष्णविष्णुवसुभान्याद्यैः सहाष्टौ सदेति । वक्री ग्रह इति । वक्री ग्रहो यदि केंद्रगः स्यात्स गमे यात्रायां निषिद्धः । अथवाऽस्य वक्रीग्रहस्य लग्ने वर्गः षडुर्गश्चेत्सोऽपि गमने निषिद्धः । वास्य वक्रीग्रहस्य दिनं वारोऽपि गमने निषिद्धम् ॥ ३८ ॥ __ अथायनशूलमिंद्रवजयाहसौम्यायने सूर्यविधू तदोत्तरां प्राची व्रजेत्तौ यदि दक्षिणायने ॥ प्रत्यग्यमाशां च तयोदिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथाभवेत्॥ सौम्यायन इति ॥ यदि सूर्यचंद्रौ सौम्यायने उत्तरायणगतौ स्यातां तदा उत्तरां प्राची वा व्रजेत् । तद्दिङ्मुखा यात्रा शुभेत्यर्थः । यदि तु रविचंद्रौ दक्षिणायनगतौ स्यातां तदा प्रतीची दक्षिणां वा व्रजेत् । अथ तयोभिन्नायनत्वे अयनभेदे सति दिवानिशं व्रजेत् । यथा । सूर्यो यस्मिन्नयने तां दिशं दिवा व्रजेत् । चंद्रो यस्मिन्नयने तां दिशं रात्रौ यायात् । अत्रोत्तरस्यां पूर्वस्या अंतर्भावः दक्षिणस्यां पश्चिमाया इति । रत्नकोशे । दिनकरकरप्रतप्तां मकरादावुत्तरां च पूर्वी च । यायाच्च कर्कटादौ याम्यामाशां प्रतीची चेति । अथान्यथा चेत्कुर्यात्तदा वधो मरणं भवेत् । भिन्नायनत्वे सति सूर्यो यस्मिन्नयने तां दिशं यदि रात्रौ गच्छेत् चंद्रो यस्मिन्नयने तां दिवा गच्छेत्तदा यातुर्वधो भवेदित्यर्थः ॥ ३९ ॥ __ अथ संमुखशुक्रदोषमुपजात्याहउदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुम्भसंघे ॥ त्रिधोच्यते संमुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ॥४०॥ - उदेतीति ॥ शुक्रो यस्यां दिशि प्राच्या प्रतीच्यां वा कालवशेनोदयं करोति तत्र गंतुः पुंसः शुक्रः संमुखः । अयमेकः प्रकारः । अथवा गोलभ्रमवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा यदि याति गच्छति तत्र गंतुः पुंसः शुक्रः संमुखः । अयमेकः प्रकारः । अथवा गोलभ्रमवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा यदि याति गच्छति तत्र गंतुः पुंसः संमुखः शुक्रः स्यात् । अयं द्वितीयः प्रकारः । अथ यत्र ककुब्भसंघे प्राच्यादिदिशि कृत्तिकादिन्यासवशेन यदिङ्नक्षत्रे चरति तत्र दिशि गंतुः संमुखः शुक्रः स्यादित्ययं तृतीयः प्रकारः । अत्रिः । यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यहारभेषु विचरेत्रिविधं प्रतिभार्गवमिति । यत्रोदित इति । यस्यां दिश्युदितः शुक्रो हुश्यते तां दिशमेव न गच्छेत् । अन्यदिश्यपि यथासंभवं न यायात् । मूढे शुक्रे कार्यहानिः प्रतिशुक्रे पराजय इति नारदोक्तेः । अवश्यकर्तव्ये गमने शांतिमाह वसिष्ठः । भृगुलग्ने भृगोवीरे भृगुवर्ग भृगूदये । उपोष्य भृगुवारेऽपि यावच्छुक्रोदयं प्रति । रजतेनैव शुद्धेन Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248