Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 199
________________ यात्राप्रकरणम् । १७९ क्षिणभागे च दुष्टो न स्यात् । मध्येमार्गमिति । सुमुहूर्तप्रस्थितोऽपि राजा मध्येमार्ग मार्ग - मध्ये यदि शुक्रास्तो भवेत्तावत्कालं तस्मिन्नेव प्रयाणे तिष्ठेत् यावच्छुक्रोदयो भवेत् यदि गच्छतो राज्ञो दैवात्संमुखः शुक्रश्चेत्तावदस्य शुक्रस्य संमुखत्वेऽपि तस्मिन्नेव प्रयाणे तिष्ठेत् उपलक्षणत्वाद्दुरावप्येवंविधे द्रष्टव्यम् । पराशरः । जीवः शशांकः शुक्रो वा मार्गमध्येऽस्तगो यदि । तत्रैव निवसेद्राजा यावदभ्युदितो भवेदिति || मार्गमध्ये बुधास्ते न दोषः । यदा तु मार्गमध्ये बुधोदयो भवेत्स च पुनः संमुखो भवेत्तदा तु पुनर्दोष एव । वसिष्ठः । संमुखश्चंद्रजो यत्र मार्गमध्योदितो यदि । यावदस्तं गते तस्मिंस्तावत्तत्रैव संवसेदिति ॥ ४२ ॥ अथ निषिद्धलन मनुष्टुभाह कुंभकुंभांशको त्याज्यौ सर्वथा यत्नतो बुधैः । तत्र प्रयातुर्नृपतेरर्थनाशः पदेपदे ।। ४३ । कुंभकुंभांशकाविति ॥ स्पष्टोऽर्थः ॥ ४३ ॥ अथान्यन्मंजुभाषिण्याह अथ मीनलग्न उतवा तदंशके चलितस्य वक्रमिह वर्त्म जायते । जनिलग्नजन्मभपती शुभग्रहौ भवतस्तदा तदुद्ये शुभो गमः ॥ ४४ ॥ अथ मीनलग्न इति ॥ मीनलग्ने लग्नांतरे वा मीनांशके चलितस्य राज्ञो वर्त्म वक्रं स्यात् । जनीति जनिर्जन्मकालीनं लग्नं जन्मभं जन्मराशिः तयोर्जन्मलग्नराश्योः पती स्वामिनौ शुभग्रहौ सौम्यग्रहौ चेदुदये लग्ने भवतस्तदा गमो गमनं शुभः स्यात् । जन्मलग्नं जन्मराशिव यात्रालग्नगं शुभमिति प्रागेवाभिहितम् । जननराशितनू यदि लग्नग इति । अर्थाज्जन्मलग्नजन्मराशिस्वामिनी पापग्रहौ यात्रालग्ने स्यातां तदा तादृशे लग्ने गमनमशुभफलमित्यर्थः । वसिष्ठः । जन्मराशौ लग्नगते तदीशे वा विलनगे । अभीष्टफलदा यात्रा राशीशश्रेच्छुभग्रहः ॥ वृद्धनारदेन । जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः । तयोरुपचयस्थानं यदि लग्नगतं शुभमिति जन्मराशिर्यात्रालग्ने निषिद्ध उक्तः स जन्मराशेः पापग्रहस्वामित्वे ज्ञेयः । शुभस्वामित्वे तु प्रागुक्तवसिष्ठवाक्यं स्वरसं स्यात् । एवं जन्मलग्नोदयः शुभ इत्यत्रापि जन्मलग्नस्य शुभस्वामित्वे शुभफलता न पापस्वामित्वे इति व्याख्येयम् ॥ ४४ ॥ अथान्यद्रथोद्धतयाहजन्मराशिततोऽष्टमेऽथवा स्वारिभाव रिपुभे तनुस्थिते ॥ लग्नगास्तदधिपा यदाथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ।। ४५ ।। जन्मराशितनुत इति । स्वजन्मराशेर्जन्मलग्नाच्च वाष्टमे राशौ लग्नस्थिते सति तथारिभात् जिगमिषतः शत्रोर्भात् राशेर्लग्नाच्च रिपुभे षष्ठराशौ लग्नस्थिते सति अथवा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248