Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 191
________________ यात्राप्रकरणम् । १७१ : पंचम्यादिकाः ज्येष्ठे षष्ट्यादिका: आषाढे सप्तम्यादिकाः श्रावणेऽष्टम्यादिकाः भाद्रपदे नवम्यादिकाः आश्विने दशम्यादिकाः कार्तिके एकादश्यादिकाः मार्गशीर्षे द्वादश्यादिकाः सर्वास्तिथयो द्वादश्यंता लेख्याः । अवशिष्टस्थानानि प्रतिपदादिभिः पूरणीयानि । कामातिस्र इति कामात्रयोदशीचतुर्दशीपंचदश्यस्तृतीयादिवत्स्युः त्रयोदशी तृतीयावत्. चतुर्दशी चतुर्थीवत् पंचदशी पंचमीवत्स्युरित्यर्थः । फलार्थमतिदेशो ऽयम् । तत्र प्रतिपदादौ पूर्वदक्षिणपश्चिमोत्तरासु दिक्षु याने चिकीर्षिते सति फलं शुभाशुभं सौख्यं क्लेश इत्यादिना वृत्तत्रयेण वक्ष्ये कथयिष्यामि ॥ २० ॥ फलानि शालिनीत्रयेणाह - सौख्यं क्लेशो भीतिरर्थागमश्च शून्यं नैःस्व्यं निःस्वता मिश्रता च ॥ द्रव्यक्लेशो दुःखमिष्टाप्तिरर्थो लाभः सौख्यं मंगलं वित्तलाभः ॥ २१ ॥ लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च ॥ लाभः कष्टद्रव्यलाभौ सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च ।। २२ ।। सौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरथ धनं च ॥ मृत्युर्लाभो द्रव्यलाभश्च शून्यं शून्यं सौख्यं मृत्युरत्यंतकष्टम् ॥ २३ ॥ सौख्यमिति । लाभ इति । सौख्यमिति च ॥ श्लोकत्रयं स्पष्टार्थमेव । तत्र पौषप्रतिपदि दिक्चतुष्टये सौख्यं क्लेशो भीतिरर्थागमश्चेति फलचतुष्टयं क्रमेण ज्ञेयम् । एवं द्वितीयादिष्वपि श्लोकचतुर्थांशोक्तं फलं स्यात् ॥ २१ ॥ २२ ॥ २३ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248