________________
यात्राप्रकरणम् ।
१७१
:
पंचम्यादिकाः ज्येष्ठे षष्ट्यादिका: आषाढे सप्तम्यादिकाः श्रावणेऽष्टम्यादिकाः भाद्रपदे नवम्यादिकाः आश्विने दशम्यादिकाः कार्तिके एकादश्यादिकाः मार्गशीर्षे द्वादश्यादिकाः सर्वास्तिथयो द्वादश्यंता लेख्याः । अवशिष्टस्थानानि प्रतिपदादिभिः पूरणीयानि । कामातिस्र इति कामात्रयोदशीचतुर्दशीपंचदश्यस्तृतीयादिवत्स्युः त्रयोदशी तृतीयावत्. चतुर्दशी चतुर्थीवत् पंचदशी पंचमीवत्स्युरित्यर्थः । फलार्थमतिदेशो ऽयम् । तत्र प्रतिपदादौ पूर्वदक्षिणपश्चिमोत्तरासु दिक्षु याने चिकीर्षिते सति फलं शुभाशुभं सौख्यं क्लेश इत्यादिना वृत्तत्रयेण वक्ष्ये कथयिष्यामि ॥ २० ॥
फलानि शालिनीत्रयेणाह -
सौख्यं क्लेशो भीतिरर्थागमश्च
शून्यं नैःस्व्यं निःस्वता मिश्रता च ॥ द्रव्यक्लेशो दुःखमिष्टाप्तिरर्थो
लाभः सौख्यं मंगलं वित्तलाभः ॥ २१ ॥ लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च ॥ लाभः कष्टद्रव्यलाभौ सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च ।। २२ ।। सौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरथ धनं च ॥ मृत्युर्लाभो द्रव्यलाभश्च शून्यं शून्यं सौख्यं मृत्युरत्यंतकष्टम् ॥ २३ ॥
सौख्यमिति । लाभ इति । सौख्यमिति च ॥ श्लोकत्रयं स्पष्टार्थमेव । तत्र पौषप्रतिपदि दिक्चतुष्टये सौख्यं क्लेशो भीतिरर्थागमश्चेति फलचतुष्टयं क्रमेण ज्ञेयम् । एवं द्वितीयादिष्वपि श्लोकचतुर्थांशोक्तं फलं स्यात् ॥ २१ ॥ २२ ॥ २३ ॥
Aho! Shrutgyanam