________________
१७०
मुहूर्तचिंतामणौ स्युर्धर्मे दस्रपुष्योरगवसुजलपरीशमैत्राण्यथार्थे याम्याजांधींद्रकर्णादितिपितृपवनोडून्यथो भानि कामे ॥ वन्ह्यान्रबुध्न्यचित्रानि,तिविधिभगाख्यानि मोक्षेऽथरोहिण्याप्येवंत्यविश्वार्यमभदिनकरआणि पथ्यादिराहो ॥१८॥
स्युर्धर्मे इति ॥ अश्विनीपुष्याश्लेषाधनिष्ठाशततारकाविशाखानुराधाख्यानि भानि धर्मे धर्मस्थाने लेख्यानि अथ भरणीपूर्वाभाद्रपदाज्येष्ठाश्रवणपुनर्वसुमघाखात्याख्यानि भानि अर्थे स्युः । अथ कृत्तिकाद्रोत्तराभाद्रपदाचित्रामूलाभिनित्पूर्वाफाल्गुनीनक्षत्राणि कामे स्युः । अथ रोहिणी आप्यं पूर्वाषाढा मृगः अंत्यं रेवती विश्वमुत्तराषाढा अर्यमभमुत्तराफाल्गुनी हस्तः एतानि भानि मोक्षे स्युः । पथिशब्द आदिर्यस्य तादृशे राही पथिराहावित्यर्थः । चक्रे इति विशेष्यमध्याहार्यम् ॥ १८ ॥ अथ स्रग्विण्या तत्फलमाह
धर्मगे भास्करे वित्तमोक्षे शशी वित्तगे धर्ममोक्षास्थितः शस्यते ॥ कामगे धर्ममोक्षार्थगः शोभनो
मोक्षगे केवलं धर्मगः प्रोच्यते ॥ १९॥ धर्मगे भास्कर इति ॥ धर्ममार्गस्थिते भास्करे सति चेद्वित्तमोक्षे शशी अर्थमार्गे मोक्षमार्गे वा शशी स्यात्तदा शोभनः । अथ वित्तगे अर्थगे भास्करे सति धर्ममार्गगः मोक्षमार्गगो वा शशी शोभनः । अथ कामगे भास्करे सति धर्माथमोक्षमार्गगः शशी शोभनः । अथ मोक्षमार्गे भास्करे सति केवलं धर्मगः शशी शोभनः । अर्थाद्विपरीतावस्थितयोईयोः सूर्याचंद्रमसोरशुभत्वं स्यात् ॥ १९ ॥ __. अथ तिथिचक्रं शालिन्याह
पौषे पक्षत्यादिका द्वादशैवं तिथ्यो माघादौ द्वितीयादिकास्ताः॥ कामात्तिस्रः स्युस्तृतीयादिवच
याने प्राच्यादौ फलं तत्र वक्ष्ये ॥२०॥ पौषे इति ॥ अत्र पौपादितः प्रतिमासे द्वादशकोष्ठका लेख्याः । एवं कृते चतुश्चत्वारिंशदधिकशतं कोष्ठेका जायते । तत्र चक्राकृतिर्यथा न्यासः प्राग्लिखितः। तत्र पक्षस्य शुक्लपक्षस्य कृष्णपक्षस्य वा मूलं पक्षतिः प्रतिपत्तदादिकालः प्रथमं पौषे मासे प्रतिपदादिकाः द्वादश तिथयोऽधोऽधो लेख्याः । माघादौ माघादिमासषु द्वितीयादिकास्लिथयो लेख्याः । यथा । माघे द्वितीयादिकाः फाल्गुने तृतीयादिकाः चैत्रे चतुोदिकाः वैशाखे
Aho ! Shrutgyanam