________________
यात्राप्रकरणम् ।
१६९
मृतपक्षे स्यातां तदा यात्राऽतिक्षयकरी स्यात् । अथास्यापवादमाह । ग्रस्तःमिति । मृतपक्षतः मृतपक्षनक्षत्रात् ग्रस्तé राहुणाक्रांतभात् पंचदशसंख्यं शुभं शुभकरं स्यात् । यथा शवान्मरिप्यमाणो देही प्रबलः तथा प्रस्ताद्राहुभतः पंचदशसंख्याकात् कर्तरी राह्वाक्रांतं भं शुभकरं स्यात् । यायीति । यो राजा वरिणमुद्दिश्य जिगमिषुः स यायी तत्स्वामी चंद्रः । यश्च स्वदेशे दुर्गं कृत्वा तिष्ठति स स्थायी रविः स्थितिमान स्थायिनो राज्ञः स्वामी तौ द्वौ सूर्याचंद्रमसौ जीवगौ जीवपक्षगतौ तयोः स्थायियायिराज्ञोर्जयकरौ रविश्चेजीवपक्षगस्तदा स्थायिनो जयचंद्रश्चेजीवगस्तदा यायिजयः । उभौ चेत् जीवगौ तदा संधिकरौ अर्थाहावपि चेन्मृतपक्षगौ उभयोः पराजयकरौ । अत्र बहुविचारः स्वरोदयादवगंतव्यः ॥ १५ ॥ अथाकुलकुलाकुलकुलगणं वसंततिलकाशार्दूलविक्रीडिताभ्यामाह
स्वात्यंतकाहिवसुपौष्णकरानुराधादित्यधुवाणि विषमारितथयोऽकुलाः स्युः। सूयेंदुमंदगुरवश्व कुलाकुला ज्ञो मूलांबुपेशविधिभं दशद्धितिथ्यः ॥ १६ ॥ पूर्वाश्वीज्यमघेदुकर्णदहनदीशेंद्रचित्रास्तथा शुक्रारी कुलसंज्ञकाश्च तिथयोऽर्काप्टेंद्रवेदैमिताः ।। यायी स्यादकुले जयी च समरे स्थायी च तद्वत्कुले
संधिः स्यादुभयोः कुलाकुलगणे भूमीशयोयुध्यतोः॥१७॥ स्वात्यंतकाहीति । पूर्वाश्वीति च ॥ स्वाती अंतकं भरणी आश्लेषाधनिष्ठारेवतीहस्तानुराधापुनर्वसूत्तरात्रयरोहिण्यः एतानि द्वादश भानि । विषमास्तिथयः प्रतिपत्तृतीयापंचमीसप्तमीनवम्येकादशीत्रयोदशीपंचदश्य इत्यष्टौ तिथयः रविचंद्रशनिबृहस्पतिवाराश्चत्वारः एते प्रत्येकमकुलसंज्ञाः । अथ ज्ञो बुधवारः मूलं अंबुपं शततारकाः ईश आर्द्रा विधिभमभिजित् चत्वारि भानि दशषद्वितिथ्यः दशमीषष्ठीद्वितियास्तिस्त्रस्तिथयः एते प्रत्येक कुलाकुलसंज्ञाः स्युः । अथ पूर्वास्तिस्त्रः अश्विनीपुष्यमघाः इंदुर्मगः कर्णः श्रवणः दहनः कृत्तिकाः द्वीशं विशाखा इंद्रो ज्येष्ठा चित्रा एतानि द्वादश भानि शुक्रभौमवारौ अर्काष्टंद्रवेदैमिता द्वादश्यष्टमीचतुर्दशीचतुर्थीसंज्ञाश्चतस्त्रस्तिथयः प्रत्येकं कुलसंज्ञकाः स्युः । फलमाह यायीति ।अकुलसंज्ञके तिथिवारनक्षत्रगणे समरे युद्धप्रारंभे सति यायी राजा जयी स्यात् । यदि कुलसंज्ञके तिथिनक्षत्रवारगणे सति स्थायी राजा तद्वजयी स्यात् । कुलाकुलसंज्ञके तिथिवारनक्षत्रगणे युध्यतोयुद्धं कुर्वतोः भूमीशयो राज्ञोः परस्परं सन्धिः स्यात् ॥ १६ ॥ १७ ॥ __ अथ पथि राहुचक्रं स्त्रग्धरयाह
Aho ! Shrutgyanam