________________
१६८
मुहूर्तचिंतामणौ पूर्वेति ॥ पूर्वात्रये प्रथमाः षोडश नाड्यो निषिद्धाः कृत्तिकायामेकविंशतिः मघायामेकादश भरण्यां सप्त घटिकाः त्याज्या इत्यर्थः । स्वातीविशाखाज्येष्ठाश्लेषानामाद्याश्चतुर्दश घटिकास्त्याज्याः। भरद्वाजः । भरण्यां सप्त घटिका वह्निभे चैकविंशतिः । एकादश घटीः पित्र्ये त्रिपूर्वासु च षोडश ॥ स्वातीसार्पविशाखाञज्येष्ठासु च चतुर्दश । वर्जयेच्छेषघटिका यात्रायां शुभदा मता इति ॥ १२॥ ___ अथ मतांतरेण वय॑त्वमिंद्रवजयाहपूर्वार्धमाग्नेयमघानिलानां त्यजेडि चित्राहियमोत्तरार्धम् ॥ नृपः समस्तां गमने जयार्थी स्वाती मघां चोशनसो मतेन ॥१३॥ पूर्वार्धमिति ॥ स्पष्टार्थम् ॥ १३ ॥ अथ भानां जीवपक्षादिकाः संज्ञा भुजंगप्रयातेनाह
तमोभुक्तताराः स्मृता विश्वसंख्या: शुभो जीवपक्षो मृतश्चापि भोग्याः॥ तदाक्रांतभं कर्तरीसंज्ञमुक्तं
ततोऽलंदुसंख्यं भवेद्स्तनाम ॥ १४ ॥ तमोभुक्तेति ॥ तमो राहुर्वक्री ग्रहस्तेन भुक्त्वा मुक्ता एवंविधा विश्वसंख्यास्त्रयोदशसंख्यास्तारा नक्षत्राणि जीवपक्षः जीवपक्षसंज्ञानि शुभकराणि । भोग्याः राहुणाक्रांतनक्षत्रात् भोग्यानि गम्यानि त्रयोदश भानि मृतो मृतपक्षसंज्ञानि । तदाक्रांतभं तेन राहुणाक्रांतभं कर्तरीत्येवनामकं स्यात् । यथा । राहुर्हस्तनक्षत्रे तेन भुक्तानि चित्रास्वातीप्रमुखानि पूर्वाभाद्रपदांतानि त्रयोदश जीवपक्षः तदाक्रांतभाद्धस्तात्पंचदशमुत्तराभाद्रपदाख्यं ग्रस्तसंज्ञम्। तेन राहुणा भोग्यानि उत्तराफाल्गुनीपूर्वाफाल्गुनीमघाश्लेषापुष्यपुनर्वस्वामृगरोहिणीकृत्तिकाभरण्यश्विनीरेवत्याख्यानि मृतपक्षः । हस्तस्तु कर्तरीसंज्ञमिति ॥ १४ ॥ अथ जीवपक्षादीनां फलं शार्दूलविक्रीडितेनाहमार्तडे मृतपक्षगे हिमकरश्चेज्जीवपक्षे शुभा यात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा ॥ ग्रस्तः मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी यायींदुःस्थितिमान् रविर्जयकरौ तौ दो तयोर्जीवगौ ॥१५॥ मातंड इति ॥ मृतपक्षगे मातडे सूर्ये सति चंद्रश्चेज्जीवपक्षे स्यात्तदा यात्रा शुभा स्यात् । विपरीतगे मार्तडे जीवपक्षगे सति चंद्रश्चन्मृतपक्षगः तदा यात्रा क्रियमाणा यातुः क्षयकरी स्यात् । द्वौ सूर्याचंद्रमसौ चेन्जीवपक्षे स्यातां तदा शुभा शुभतरेत्यर्थः। अर्थाभी
Aho! Shrutgyanam