Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 162
________________ मुहूर्तचिंतामणौ अथ दग्धतिथ्याख्यदोषमिंद्रवजयाहचापांत्यगे गोघटगे पतंगे कांजगे स्त्रीमिथुने स्थिते च ॥ सिंहालिगे नक्रधटे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ६६ चापांत्येति ॥ तत्तद्राशिद्वयस्थिते पतंगे सूर्ये द्वितीयाप्रमुखा उभयपक्षसाधारणाः समसंख्याकास्तिथ्यो दग्धाः स्युः । यथा । धनुर्मीनगते सूर्ये द्वितीया दग्धा । दृषकुंभगेऽर्के चतुर्थी । कर्कमेषगे षष्ठी । कन्यामिथुनगेऽष्टमी । सिंहवृश्चिकगे दशमी । तुलामकरगेऽके द्वादशी दग्धेत्यर्थः । मासदग्धाश्च तिथयो मध्यदेशे वर्जिता इति परिहारः ॥ ६६ ॥ अथ जामित्रदोषं भ्रमरविलसितेनाहलग्नाचंद्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् ॥ किंवा बाणाशुगमितलवगे जामित्रं स्यादशुभकरमिदम् ॥ ६७॥ लग्नादिति ॥ विवाहलग्नाच्चंद्राहा सप्तमभवनगते ग्रहे परिणयनं स्यात् । अस्यापवादः किंवेति । ग्रहाधिष्ठितनवांशमारभ्य बाणाशुग५५मितलवगे पंचपंचाशन्मितनवांशगे चंद्रे लग्ने वा जामित्रं सूक्ष्मं स्यात् । यथा मेषे पंचमनवांशे भौमोऽस्ति तस्मात्तुलायां पंचमनवांशस्थश्चंद्रो निषिद्धोऽन्येऽष्टौ नवांशाः शुभाः। एवंविधं सूक्ष्मजामित्रमिदमशुभकरं स्यात् । अस्यापवादो व्यवहारोच्चये । स्वोच्चेऽथवा स्वभवने स्फुरदंशुजाल: सौम्यालये हितगृहे शुभवर्गगो वा । जामित्रकादिपरिसंचितदोषराशिं हत्वा ददाति बहुशः सुखमेव चंद्र इति ॥ ६७ ॥ अथैकार्गलादिदोषाणामपवादभूतं साक्षाद्वसिष्ठवचनमेवेंद्रवजयाहएकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः ॥ नश्यंति चंद्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा ॥ ६८॥ एकागलेति ॥ चंद्रार्कबलोपपन्ने चंद्रार्कयोः स्वोच्चमित्रादिराशिस्थितत्वरूपेण बलेन युक्ते लग्ने सति एकार्गलादयो दोषा नश्यति । यथार्काभ्युदये दोषा रात्रिनश्यति ॥ ६८ ॥ अथ केषांचिद्दोषाणां देशविशेषेण परिहारमुपजात्याहउपग्रहदं कुरुबाह्निकेषु कलिंगवंगेषु च पातितं भम् ॥ सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विडं किल सर्वदेशे ॥६९।। उपग्रहःमिति ॥ स्पष्टार्थम् । अन्यच्च । लत्ता मालवके देशे पातः कौसलके तथा । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ युतिदोषो भवेगौडे जामित्रस्य च यामुने । वेधदोषस्तु विध्याख्ये देशे नान्येषु केषु चेति ॥ ६९ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248