________________
मुहूर्तचिंतामणौ अथ दग्धतिथ्याख्यदोषमिंद्रवजयाहचापांत्यगे गोघटगे पतंगे कांजगे स्त्रीमिथुने स्थिते च ॥ सिंहालिगे नक्रधटे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ६६
चापांत्येति ॥ तत्तद्राशिद्वयस्थिते पतंगे सूर्ये द्वितीयाप्रमुखा उभयपक्षसाधारणाः समसंख्याकास्तिथ्यो दग्धाः स्युः । यथा । धनुर्मीनगते सूर्ये द्वितीया दग्धा । दृषकुंभगेऽर्के चतुर्थी । कर्कमेषगे षष्ठी । कन्यामिथुनगेऽष्टमी । सिंहवृश्चिकगे दशमी । तुलामकरगेऽके द्वादशी दग्धेत्यर्थः । मासदग्धाश्च तिथयो मध्यदेशे वर्जिता इति परिहारः ॥ ६६ ॥
अथ जामित्रदोषं भ्रमरविलसितेनाहलग्नाचंद्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् ॥ किंवा बाणाशुगमितलवगे जामित्रं स्यादशुभकरमिदम् ॥ ६७॥
लग्नादिति ॥ विवाहलग्नाच्चंद्राहा सप्तमभवनगते ग्रहे परिणयनं स्यात् । अस्यापवादः किंवेति । ग्रहाधिष्ठितनवांशमारभ्य बाणाशुग५५मितलवगे पंचपंचाशन्मितनवांशगे चंद्रे लग्ने वा जामित्रं सूक्ष्मं स्यात् । यथा मेषे पंचमनवांशे भौमोऽस्ति तस्मात्तुलायां पंचमनवांशस्थश्चंद्रो निषिद्धोऽन्येऽष्टौ नवांशाः शुभाः। एवंविधं सूक्ष्मजामित्रमिदमशुभकरं स्यात् । अस्यापवादो व्यवहारोच्चये । स्वोच्चेऽथवा स्वभवने स्फुरदंशुजाल: सौम्यालये हितगृहे शुभवर्गगो वा । जामित्रकादिपरिसंचितदोषराशिं हत्वा ददाति बहुशः सुखमेव चंद्र इति ॥ ६७ ॥
अथैकार्गलादिदोषाणामपवादभूतं साक्षाद्वसिष्ठवचनमेवेंद्रवजयाहएकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः ॥ नश्यंति चंद्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा ॥ ६८॥
एकागलेति ॥ चंद्रार्कबलोपपन्ने चंद्रार्कयोः स्वोच्चमित्रादिराशिस्थितत्वरूपेण बलेन युक्ते लग्ने सति एकार्गलादयो दोषा नश्यति । यथार्काभ्युदये दोषा रात्रिनश्यति ॥ ६८ ॥
अथ केषांचिद्दोषाणां देशविशेषेण परिहारमुपजात्याहउपग्रहदं कुरुबाह्निकेषु कलिंगवंगेषु च पातितं भम् ॥ सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विडं किल सर्वदेशे ॥६९।।
उपग्रहःमिति ॥ स्पष्टार्थम् । अन्यच्च । लत्ता मालवके देशे पातः कौसलके तथा । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ युतिदोषो भवेगौडे जामित्रस्य च यामुने । वेधदोषस्तु विध्याख्ये देशे नान्येषु केषु चेति ॥ ६९ ॥
Aho ! Shrutgyanam