________________
विवाहप्रकरणम् ।
अथ दशयोगदोषमुपजात्याहशशांकसूर्यःयुतेऽर्भशेषे खं भूयुगांगानि दशेशतिथ्यः॥ नागेंद्वोऽदुमिता नखाश्चेद्भवंति चैते दशयोगसंज्ञाः ॥ ७० ॥
शशांकेति ॥ चेद्यदि चंद्रसूर्यनक्षत्रयोर्युतेर्योगात् भैः सप्तविंशत्या भक्ताद्यः शेषस्तस्मिन् शून्यैकचतुःषट्दशैकादशपंचदशाष्टादशैकोनविंशतिविंशतिसंख्याके सति एतेंऽकाः दशदशयोगसंज्ञा भवंति । शिष्टानां दशानामंकानामभिहितत्वाद्दशयोग इत्यन्वर्था संज्ञा ॥ ७० ॥ अथ दशयोगफलं तदपवादं च शार्दूलविक्रीडितेनाहवाताभ्राग्निमहीपचोरमरणं रुग्वज्रवादाः क्षति
र्योगांके दलिते समे मनुयुतेऽथौजे तु सैकेर्धिते ॥ भंदास्रादथ संमितास्तु मनुभी रेखाः क्रमात्सँलिखे
वेधोऽस्मिन् ग्रहचंद्रयोर्न शुभदः स्यादेकरेखास्थयोः ॥ ७१ ॥ वाताभ्रेति ॥ शून्ये शेषे वातदोषः स्यात् एकशेषेऽभ्राच्चतुःशेषेऽग्नेः षट्शेषे महीपात् दशशेषे चोरात् एकादशसु मरणम् पंचदशसु रुक् अष्टादशसु वजम् एकोनविशेषु वादः कलिः झकटक इत्यर्थः । विंशतिशेषे क्षतिः द्रव्यनाशः । अथापवादः । योगांक इति । खं भूयुगादिरूपे योगांके समे युग्मसंख्याके सति दलिते अर्धीकते मनुभिश्चतुर्दशभिर्युक्ते योऽकः स्यात् तद्दास्रादश्विनीतो भं नक्षत्रं स्यात् । अौजे तु सैकेऽर्धिते योगांके ओजे विषमे सैके अर्धिते अश्विनीतः मं नक्षत्रं स्यात् । यथा समांकाः दश १ ० अर्धिताः ५ मनु १४ युताः १९ मूलं नक्षत्रं जातम् । ओजांके यथा विषमांके १५ योगः सैकः १६ अर्धितः ८ पुष्यनक्षत्रं जातम् । अथानंतरं मुनिभिः संमिताश्चतुर्दशरेखास्तिर्यक् क्रमात्संलिखेत्ततः अनेन प्रकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्नक्षत्रवृंदं अस्मिश्चक्रे लेख्यं तन्नक्षत्रे ग्रहा: स्थाप्याः । दिननक्षत्रे चंद्रः स्थाप्यः तत एकरेखास्थयोः ग्रहचंद्रयोः परस्परावलोकनरूपो वेधो न शुभदः । उक्तं च ज्योतिःसागरे । तिथ्यंगवेदैकदिगूनविंशशून्यं भवाष्टादशविंशसंख्याः । इष्टोडुना सूर्ययुतोडुना च योगादमी चेद्दशयोगदोषाः ॥ मरुन्मेघाग्निभूपालचौरमृत्युरुनोऽशनिः । कलिर्हानिर्दश दोषास्त्याज्याः स्युः सर्वथा बुधैः ॥ योगांके विषमे सैके समे सवसुलोचने । दलीलतेऽश्विनी पूर्वं दशयोगमुदाहृतम् ॥ दशयोगे महाचक्रे प्रमादाद्यदि विध्यते । क्रूरैः सौम्यग्रहैर्वापि दंपत्योरेकनाशनमिति । दशयोगापवादातरमाह भरद्वाजः । गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्नकेंद्रगे । दश दोषा विनश्यति यथानौ तूल
Aho ! Shrutgyanam