________________
१४४
मुहूर्तचिंतामणौ राशयः ॥ व्यासः । गुरुणा भृगुणा वापि संयुतं दृष्टमेव च । दशयोगसमायुक्तमपि लग्नं शुभावहम् ॥ ७१॥
अथ पंचकाख्यं बाणदोषं शालिन्याहलग्नेनाढ्या याततिथ्योंऽकतष्टाः शेषे नागद्व्यब्धितकेंदुसंख्ये ॥ रोगो वही राजचौरौ च मृत्युर्बाणश्चायं दाक्षिणात्यप्रसिद्धः॥७२॥
लग्नेनेति ॥ शुक्लपक्षादिकास्तिथयो वर्तमानलग्नेनाढ्याः युक्ताः अंकैर्नवभिस्तष्टाः शेषे नागसंख्ये अष्टसंख्ये रोगाख्यो बाणः एवं द्विसंख्ये शेषे वयाख्यः चतुःसंख्ये राजाख्यः षट्संख्ये चौराख्यः एकसंख्ये मृत्युसंज्ञो वाणः एते बाणाः दाक्षिणात्येषु महाराष्ट्रेषु प्रसिद्धाः ॥ ७२॥ अथ व्यासमतेन बाणं सापवादं मालिन्याह
रसगुणशशिनागान्ध्यायसंक्रांतियातांशकमितिरथतष्टांकैर्यदा पंच शेषाः॥ रुगनलनृपचोरा मृत्युसंज्ञश्च बाणो
नवहृतशरशेषे शेषकैक्ये सशल्यः ॥ ७३ ॥ रसगुणेति ॥ रसगुणशशिनागाब्धिभिराव्या चासौ संक्रांतियाताशकमितिश्चेति कर्मधारयः । सूर्यभुक्तांशानां मितिः संख्या पंचधा स्थाप्या कलादिकमुपेक्ष्यं सा क्रमेण षट्येकाष्टचतुर्भिराव्या संयोज्यांकैनवभिस्तष्टा सती यदा पंचशेषा यस्मिन् स्थले पंच शिष्यते तत्र क्रमेण रुगादिवाणो ज्ञेयः । यथा आदौ पंचशेषे रोगबाणः द्वितीये पंचशेषेऽग्निबाणः तृतीये राजबाणः चतुर्थे चौरबाणः पंचमे मृत्युबाणः तस्माद्यं भवतीत्यर्थः । अयं बाणः शल्यसहितः तेन स्वल्पदोषः तदपवादभूतः सशल्यो बाण उच्यते । नवेति यानि प्रागागतानि शेषाणि तेषामैक्ये नवहते पश्चाच्छरशेषे सति सशल्यः शल्यसहितो बाणः स्यात् । पंचव्यतिरिक्तशेषे शल्यरहितो दुष्ट इत्यर्थः । अन्यैस्तु। तिथिवारभलग्नांको रसायब्जाष्टवेदयुक् । नंदाप्तपंचशेषे रुग्वह्निराट्चोरमृत्युकदिति ॥ ७३ ॥ अथ समयभेदेन वारभेदेन कर्मभेदेन च त्रिविधं बाणपरिहारं शार्दूलविक्रीडितेनाह
रात्रौ चोररुजौ दिवा नरपतिर्वह्निः सदासंध्ययोर्मृत्युश्वाथ शनौ नृपो विदि मृतिौमेऽग्निचोरौ रवौ ॥ रोगोऽथव्रतगेहगोपनृपसेवायानपाणिग्रहे वया॑श्च । क्रमतो बुधै रुगनलक्ष्मापालचोरा मृतिः ॥७४ ॥
Aho ! Shrutgyanam