________________
विवाहप्रकरणम् ।
1
रात्रौ चोरेति ॥ चोररुजौ बाणौ रात्रौ त्याज्यौ । दिवा नरपतिः राजवाणस्त्याज्यः वह्निबाणः सदा दिवा रात्रौ त्याज्यः संध्ययोः सायंप्रातःसंध्ययोर्मृत्युबाणस्त्याज्यः । ज्योतिःप्रकाशे । रोगं चौरं त्यजेद्रात्रौ दिवा राजन्यपंचकम् । संध्ययोर्मृत्युदं त्याज्यं सर्वदा वह्निषंपंचकमिति । अथ वारभेदेन परिहारः । अथेति । शनिवारे नृपबाणः विदि बुधवारे मृतिबाणः भौमेऽग्निचौरौ बाणौ रवौ रोगबाणस्त्याज्यः । उक्तं च । रवौ रोगं कुजे वह्नि शनौ च नृपपंचकम् । वर्ज्यं पुनः कुजे चौरं बुधवारे च मृत्युदम् ॥ अथ कार्यभेदेन परिहारः । अथेति । क्रमत एषु शुभकर्मसु एते बाणाः वर्ज्याः । यथा व्रते यज्ञोपवीते रुक् गृहस्याच्छादनेऽग्निः नृपसेवायां राजवाणः याने चौर: पाणिग्रहे मृतिबाणो वर्ण्यः । उक्तं च । नृपाख्यं नृपसेवायां गृहगोपेऽग्निपंचकम् । याने चौरं व्रते रोगं त्यजेन्मृत्युं करग्रह इति ॥ ७४ ॥
अथ ग्रहदृष्टिमुपजातिकयाह
ज्याशं त्रिकोणं चतुरस्रमस्तं पश्यंति खेटाश्चरणाभिवृद्धया ॥ मंदो गुरुर्भूमिसुतः परे च क्रमेण संपूर्णहशो भवति ॥ ७५ ॥
त्र्याशमिति ॥ ये खेटाः यस्मिन् स्थाने स्थिताः तस्मात्कथ्यमानानि स्थानानि चरणाभिवृद्ध्या पश्यंति तद्यथा । त्र्याशं तृतीयं दशमं च एकचरणदृष्ट्या पश्यति । अनेन तत्तद्ब्रहोद्भवफलं चरणाभिवृद्ध्यैव भवतीति सूचितम् । मंद इति । मंदः शनैश्वरः स्वस्थानात् त्र्याशं संपूर्णदृक् चतुश्चरणदृष्टि एवं गुरुत्रिकोणे पूर्णदृक् भूमिसुतश्चतुरस्त्रे पूर्ण परेshचंद्रबुधशुक्राः सप्तमे पूर्णदृशः ॥ ७९ ॥
1
अथोदयास्तशुद्धिं शिखरिणीभुजंगप्रयाताभ्यामाह
यदा लग्नांशेशी लवमथ तनुं पश्यति युतो भवेद्रायं वोदुः शुभफलमनल्पं रचयति ॥ लवधूनस्वामी लवमदनभं लग्नमदनं
१४९
प्रपश्येद्वा वध्वाः शुभमितरथा ज्ञेयमशुभम् ॥ ७६ ॥ लवेशो लवं लग्नपो लग्नगेहं प्रपश्येन्मिथो वा शुभं स्याद्वरस्य ॥ लवयूनपोंऽशग्रुनं लग्नपोऽस्तं मिथो वेक्षते स्याच्छुभं कन्यकायाः ७७
यदा लग्नांशेश इति । लवेशो लवमिति ॥ लग्नेशः लग्नस्वामी अंशशो लग्ननवांशस्वामी लवं नवांशं पश्यति वाऽथवा नवांशेन सह युतो भवेत्तदा वोदुर्वरस्यानपं शुभफलं रचयति । यथा । मेषलग्ने मिथुनांशस्तदीशो बुधस्तुलायां मिथुनं पश्यति तत्र तिष्ठति वा अयमुदयशुद्धेः प्रथमप्रकारः तदभावे तु लग्नांशेशस्तनुं लग्नं पश्यति लग्नेन सह तो भवेत्तदापि वोढुः शुभफलमनल्पं स्यात् । यथा । मेषलने एव मिथुननवांशस्वा
Aho! Shrutgyanam