________________
मुहूर्तचिंतामणौ मी बुधो मकरे नवांशं न पश्यति किंतु लग्नं पश्यति अथवा मेष एव तिष्ठति अयमदयशुद्धेद्धितीयः प्रकारः। लवद्यूनस्वामी लवान्नवांशात् द्यूनं सप्तमनवांशः तत्स्वामी लवमदनभं लवान्मदनभं सप्तमनवांशं पश्यति तेन सह युतो वा भवेत् तदा वध्वाः अनल्पं बहु शुभं रचयति । यथा मिथुननवांशात् सप्तमो धनुरंशः तदीशो गुरुमेषे धनुः पश्यति तत्र तिष्ठति वा अयमस्तशुद्धेः प्रथमप्रकारः । तदलाभे तु लवद्यूनस्वामी लग्नान्मदनं सप्तमं भवनं पश्यति युतो वा सप्तमभवनेन तदा वध्वाः शुभम् । यथा गुरुः कर्के स्वनवांशं न पश्यति किंतु सप्तमभवनं तुलां पश्यति अथवा तुलायामेवास्ति तदा वध्वाः शुभम् । अयमस्तशुद्धेर्द्वितीयः प्रकारः । इतरथेति यदा लग्नांशेशो लवं तनु वा न पश्यति तत्र युतो वा न स्यात्तदा वरस्याशुभम् एवं लवद्यूनस्वामी नवांशं सप्तमं वा न पश्यति तत्र युतो वा न स्यात् तदा कन्याया अशुभम् । काश्यपः। स्वदेशेनोदयास्तांशो वीक्षितौ वाथ संयुतौ । लग्नं वास्तगृहं तत्तदंशेशेनेक्षितं युतमिति ॥७६॥ लवेश इति । नवांशस्वामी नवांशं प्रपश्येत् लग्नस्वामी लग्नं पश्येत्तदा वरस्य शुभम् । एवं लवद्यूनपो नवांशात्सप्तमनवांशस्वामी अंशधूनं अंशसप्तमराशिं पश्येत् लग्नपो लग्नस्वामी अस्तं लग्नात्सप्तमभवनं पश्येत् तदा कन्यायाः शुभं स्यात् वा मिथः अंशसप्तमाधीशो लग्नसप्तममीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापि कन्यायाः शुभं स्यात् । अत्राप्यन्यथात्वे दंपत्योरशुभमित्यर्थः । नारदः । लग्ननवांशको खस्वपतिना वीक्षितौ युतौ । न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ । एवं तौ वीक्षितयुतौ मृत्युर्वध्वाः करग्रह इति ॥ ७७ ॥ अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावे तृतीयः प्रकार उच्यते मालिनीछंदसा
लवपतिशुभमित्रं वीक्षतेंऽशं तर्नु वा परिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् ॥ मदनलवपमित्रं सौम्यमंशगुनं वा
तनुमदनगृहं चेदीक्षते शर्म वध्वाः ॥ ७८ ॥ लवपतीति ॥ शुभं च तन्मित्रं चेति कर्मधारयः लवपतेर्लग्ननवांशेशस्य शुभग्रहः चंद्रबुधगुरुशुक्राणामन्यतमश्चेन्मित्रं स्यात्स चेदंशं नवांशं तनुं वा वीक्षते तदा परिणयनकरस्य वरस्य शास्त्रदृष्टं पुत्रादिप्राप्तिरूपं शुभं फलं स्यात् । एवं मदनलवपस्यास्तांशेशस्य मित्रं सौम्यं तच्चांशधूनं अंशाल्लग्ननवांशात् द्यूनं सप्तमनवांशं चेदीक्षते अथवा तनुमदनगृहं लग्नात्सप्तमभवनं चेदीक्षते तदा वध्वाः शर्म कल्याणं स्यात् । यद्युभयत्रापि नवांशस्वामिनो मित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितोऽर्थः । वराहः । शुद्धस्त्विह स्यान्न यदोदयांशो लग्नेन वास्तांश उपति शुद्धिम् । तदा सुहृत्सौम्यनिरीक्षितो यः शुभायसः स्यात्प्रवदंति संत इति । केचिद्विवाहे वज्रयोगं निषिद्धमाहुः । तल्लक्षणम् । तिथिवारं च नक्षत्रं
Aho ! Shrutgyanam