________________
विवाहप्रकरणम् । अथ प्रसंगात्पातोपग्रहलत्तास्वपवादमर्धयामं चानुष्टुभाह
पातोपग्रहलत्तासु नेष्टोऽघिः खेटपत्समः॥
वारस्त्रिघ्नोऽष्टभिस्तष्टः सैकः स्यादर्धयामकः ॥ ६४ ॥ पातेति॥पातश्चंडीशचंडायुधाख्यो दोषः उपग्रहाः प्रागुक्ताः लत्ता ज्ञराहुपूर्णेदुसितेत्यादिनोक्ता तत्र खेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणो नेष्टः । अयमर्थः । उपग्रह पाते रविर्यस्मिन् चरणे स्यात्तत्संख्य एव तस्य चरणो वज्यों नान्यः । लत्तायां तु । लत्ताकारी ग्रहो यत्र चरणे स्यात्तत्समसंख्य एव चरणो लत्तितनक्षत्रस्य वज्यों नान्यः । उक्तं च । उपग्रहेषु लत्तायां तथा चंडायुधाह्वये । ग्रहोऽस्ति यत्प्रमाणांशे विद्धांशस्तत्प्रमाणक इति । अयं परिहारः स्वार्जुरिकेऽपि द्रष्टव्यः । सूर्यो यस्मिन् पादे भवेत् तत्समसंख्य एव चरण एकरेखावस्थितचंद्रनक्षत्रस्य वर्ण्य इति खार्जूरिकसमांघ्रिभमित्युक्तत्वात् । वार इति । इष्टो वा. रस्त्रिघ्नः अष्टभिस्तष्टः शेषितो योऽकः सैकः सोऽर्धयामो दोषः स्यात् । कश्यपः । शैलाक्षश्रुतयः ७,९,४, सूर्ये चंद्रे षट् वेदपर्वताः ६,४,७ ॥ भौमे बाणाग्निनेत्राणि ५,३,२ सौम्ये वेदाक्षिवायवः ४,२,५ ॥ गुरुवारेऽग्निचंद्रेभाः ३, १, ८ शुक्रे नेत्राद्रिवह्नयः २, ७, ३॥ शनी चंद्रेभताः १, ८, ६ स्युः कुलिको यमघंटकः ॥ अर्धप्रहरसंज्ञांस्तान्मंगलेषु विवर्जयेत् । निधनं प्रहराधै तु निःसत्वं यमघंटके । कुलिके सर्वनाशः स्याद्रात्रावेते न दोषदा इति ॥ ६४ ॥ अथ कुलिकमनुष्टुभाह
शक्रादिग्वसुरसाध्यश्विनः कुलिका रवेः॥
रात्रौ निरेकास्तिथ्यंशाः शनौ चांऽत्योऽपि निंदिताः॥६५॥ . शक्रेति ॥ रविमारभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यंशा मुहूर्ताः कुलिकाः स्युः । यथा दिने रवौ १४ चंद्रे १२ भौमे १० बुधे ८ गुरौ ६ शुक्रे ४ शनौ २ रात्रावते निरेकाः कार्याः । यथा रवौ १३ चं. ११ भौ. ९ बु. ७ गु. ५ शु. ३ श. १ शनौ तु अंत्योऽपि रात्रेः पंचदशोऽपि मुहूर्तः कुलिकः। एते निंदिताः। एतेषामर्धयामादिदोषाणां पुननिरूपणं विवाहे अवश्यवर्जत्वाथै शीघ्रोपस्थित्यथै चेति । कुलिकापवादे गुरुः । वारेशे सबले वापि बलाढ्ये लग्नगे शुभे । कुलिकोदयदोषस्तु विनश्यति न संशयः ॥ वाराधीशे बलोपेते विधौ वा बलसंयुते । अर्धप्रहरसंभूतो दोषो नैवात्र विद्यते ॥ शुभे केंद्रगते चंद्रे शुभांशे वा शुभेक्षिते । लग्नगे सबले वापि कुलिकस्तु विलीयते ॥ अर्धप्रहरपूर्वार्ध मध्यं त यमघंटजम । वर्जयित्वा च कुलिकस्यांत्यांशं शुभमाचरेदिति ॥ १५ ॥
Aho ! Shrutgyanam