Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 181
________________ अभ्याधानप्रकरणम् । १६१ 1 नो कर्केति ॥ कर्कमकरमीनकुंभानां नवांशे लग्ने चान्याधानं नो कार्यम् । लग्ने चंद्रे सति नो कार्यम् । चंगस्योपलक्षणत्वाच्छुक्रेऽपि लग्ने सति नो कार्यम् । यस्य चाधानलग्नस्थे चंद्रे च भृगुनंदने । उपैति तस्य जातोऽग्निर्निर्वाणं सततं कुले इति कश्यपोक्तेः । रविशशीज्येति । सूर्यचंद्रगुरुभौमेषु त्रिकोणकेंद्रक्षेपटूत्रिभवगेषु नवमपंचमलमचतुर्थसप्तमदशमषष्ठतुतीयस्थानस्थितेषु सत्सु परैर्बुधशुक्रशनिराहुकेतुभिः त्रिलाभषट्खस्थितैः तृतीयैकादशषष्टदशमस्थानस्थितैः सद्भिः आधानं हितं स्यात् । निधनेति अष्टमस्थानशुद्धियुते लग्ने अष्टमस्थाने शुभग्रहोऽपि न शुभः । अथवा निधनशुद्धियुते इति निधनमष्टमं लग्नं कस्मादित्याकांक्षायामाधानकर्तुर्जन्मराशिलग्नाभ्यामष्टमं लग्नमित्यर्थः । तस्य शुद्धत्वं तदभाव इति यावत् तेन युक्ते लग्ने इत्यर्थः । अत्र व्याख्यानद्वयेऽपि प्रमाणसद्भावात् इयमपि युक्तम् । अत्र निधनशुद्धिश्च निधनशुद्धिश्र ताभ्यां युते लग्न इत्यर्थः ॥ २ ॥ अथान्याधानकर्तुराधानलग्नवशाद्यागकर्तृत्वयोगाननुष्टुभाह चापे जीवे तनुस्थे वा मेषे भौमें बरे द्युने ॥ षट्sयायेऽब्जे रवौ वा स्याज्जाताग्निर्यजति ध्रुवम् ॥ ३ ॥ इति श्रीमुहूर्तचिंतामणौ नवममश्याधानप्रकरणं समाप्तम् ॥ ९ ॥ 1 चाप इति ॥ जीवे गुरौ चापे धनुःस्थे लग्नगे सति आधानलग्ने धनुराख्ये गुर्वधिष्ठिते सतीत्यर्थः । अयमेको योगः । अथवा | भौमे मेषलग्नस्थिते सति अयं द्वितीयो योगः । अथवा । आधानलग्नाद्दशमे सप्तमे वा भौमे सति योगद्वयमेतत् । अथवा अब्जे चंद्रे षष्ठतृतीयैकादशस्थानस्थे सति योगत्रयमेतत् । अथवा षट्त्रयाये रवौ सूर्ये सति योगत्रयमेतत् । एवंविधे लग्ने यो जाताग्निरग्निहोत्रकर्ता ध्रुवं निश्चयेन जयति ज्योतिष्टोमादियागं करोतीत्यर्यः ॥ ३ ॥ इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितप्रमिताक्षरायां नवममन्याधानप्रकरणं समाप्तम् ॥९॥ अथ राजाभिषेकप्रकरणप्रारंभः ॥ अथ राजाभिषेकप्रकरणं व्याख्यायते । तत्र कालशुद्धिमिंद्रवंशयाहराजाभिषेकः शुभ उत्तरायणे गुर्विदुशुकै रुदितैर्बलान्वितैः ॥ भौमार्कलग्नेशदशेशजन्मपैन चैत्ररिक्तारनिशामलिम्लुचे ॥ १ ॥ राजाभिषेक इति ॥ उतरायणगते सूर्ये सति तथा गुर्विदुशुः बृहस्पतिचंद्रशुक्ररुदितैः सद्भिः तथा भौमार्को प्रसिद्धौ लग्नेशो जन्मलग्नेशः दशेशौ वर्तमानजातकीयमहादशांतर्दशस्ट्रोः स्वामिनौ । जन्मपो जन्मराशिस्वामी एतैर्बलान्वितैः उच्चस्वगृहादिगृहस्थैः सद्भिः राजाभिषेकः शुभ उक्तः । नो चैत्रेति । चैत्रमासः रिक्ताः ४, ९, १४ आरो भौमः 1 २१ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248