________________
अभ्याधानप्रकरणम् ।
१६१
1
नो कर्केति ॥ कर्कमकरमीनकुंभानां नवांशे लग्ने चान्याधानं नो कार्यम् । लग्ने चंद्रे सति नो कार्यम् । चंगस्योपलक्षणत्वाच्छुक्रेऽपि लग्ने सति नो कार्यम् । यस्य चाधानलग्नस्थे चंद्रे च भृगुनंदने । उपैति तस्य जातोऽग्निर्निर्वाणं सततं कुले इति कश्यपोक्तेः । रविशशीज्येति । सूर्यचंद्रगुरुभौमेषु त्रिकोणकेंद्रक्षेपटूत्रिभवगेषु नवमपंचमलमचतुर्थसप्तमदशमषष्ठतुतीयस्थानस्थितेषु सत्सु परैर्बुधशुक्रशनिराहुकेतुभिः त्रिलाभषट्खस्थितैः तृतीयैकादशषष्टदशमस्थानस्थितैः सद्भिः आधानं हितं स्यात् । निधनेति अष्टमस्थानशुद्धियुते लग्ने अष्टमस्थाने शुभग्रहोऽपि न शुभः । अथवा निधनशुद्धियुते इति निधनमष्टमं लग्नं कस्मादित्याकांक्षायामाधानकर्तुर्जन्मराशिलग्नाभ्यामष्टमं लग्नमित्यर्थः । तस्य शुद्धत्वं तदभाव इति यावत् तेन युक्ते लग्ने इत्यर्थः । अत्र व्याख्यानद्वयेऽपि प्रमाणसद्भावात् इयमपि युक्तम् । अत्र निधनशुद्धिश्च निधनशुद्धिश्र ताभ्यां युते लग्न इत्यर्थः ॥ २ ॥ अथान्याधानकर्तुराधानलग्नवशाद्यागकर्तृत्वयोगाननुष्टुभाह
चापे जीवे तनुस्थे वा मेषे भौमें बरे द्युने ॥ षट्sयायेऽब्जे रवौ वा स्याज्जाताग्निर्यजति ध्रुवम् ॥ ३ ॥
इति श्रीमुहूर्तचिंतामणौ नवममश्याधानप्रकरणं समाप्तम् ॥ ९ ॥
1
चाप इति ॥ जीवे गुरौ चापे धनुःस्थे लग्नगे सति आधानलग्ने धनुराख्ये गुर्वधिष्ठिते सतीत्यर्थः । अयमेको योगः । अथवा | भौमे मेषलग्नस्थिते सति अयं द्वितीयो योगः । अथवा । आधानलग्नाद्दशमे सप्तमे वा भौमे सति योगद्वयमेतत् । अथवा अब्जे चंद्रे षष्ठतृतीयैकादशस्थानस्थे सति योगत्रयमेतत् । अथवा षट्त्रयाये रवौ सूर्ये सति योगत्रयमेतत् । एवंविधे लग्ने यो जाताग्निरग्निहोत्रकर्ता ध्रुवं निश्चयेन जयति ज्योतिष्टोमादियागं करोतीत्यर्यः ॥ ३ ॥
इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितप्रमिताक्षरायां नवममन्याधानप्रकरणं समाप्तम् ॥९॥
अथ राजाभिषेकप्रकरणप्रारंभः ॥
अथ राजाभिषेकप्रकरणं व्याख्यायते । तत्र कालशुद्धिमिंद्रवंशयाहराजाभिषेकः शुभ उत्तरायणे गुर्विदुशुकै रुदितैर्बलान्वितैः ॥ भौमार्कलग्नेशदशेशजन्मपैन चैत्ररिक्तारनिशामलिम्लुचे ॥ १ ॥
राजाभिषेक इति ॥ उतरायणगते सूर्ये सति तथा गुर्विदुशुः बृहस्पतिचंद्रशुक्ररुदितैः सद्भिः तथा भौमार्को प्रसिद्धौ लग्नेशो जन्मलग्नेशः दशेशौ वर्तमानजातकीयमहादशांतर्दशस्ट्रोः स्वामिनौ । जन्मपो जन्मराशिस्वामी एतैर्बलान्वितैः उच्चस्वगृहादिगृहस्थैः सद्भिः राजाभिषेकः शुभ उक्तः । नो चैत्रेति । चैत्रमासः रिक्ताः ४, ९, १४ आरो भौमः
1
२१
Aho! Shrutgyanam