Book Title: Mandal Prakaran Author(s): Chaturvijay Muni Publisher: Jain Atmanand Sabha View full book textPage 7
________________ इत्यनेन काव्यद्वयेन तथा श्रीमन्महेन्द्रसूरिविरचितविचारसप्त तिकामकरणवृत्तिगतेन 66 श्रीतपगणगगनाङ्गणसूरश्रीविजयदेवसूरीणाम् । विनियोगाद् वृत्तिरियं विनिर्मिता विनयकुशलेन ॥ १ ॥ " इत्येतत्काव्येन च श्रीमद्विजयसेन सूरिश्रीविजयदेवसूर्योः समानकालवर्तित्वेन विक्रमायद्विपञ्चाशदधिकषोडशशताब्दयां मण्डलमकरवृत्तिविरचितत्वेन च श्रीमतो विनयकुशलस्य सत्तासमयोऽपि निविवादं विक्रमीय सप्तदशशताब्दयामेव निश्रीयते । अनन्तरोक्तग्रन्थव्यतिरिक्तो ज्योतिश्चक्रविचारनामा ग्रन्थः श्रीमता विनयकुशलेन कृतोऽस्तीति श्रूयते परं न समासादि । अस्य प्रकरणस्य मुद्रणे द्रव्यसाहाय्यं भावनगरवास्तव्यश्रीमालिज्ञातीय - श्रेष्ठि- माणिक्यचन्द्र - तनूज - उजमसी इति नाम्ना कृतम् । तदस्यैतत्कार्यं प्रशंसार्हम् । एतस्य संशोधनसमये प्रवर्तक श्रीमत्कान्तिविजयपुस्तकसंग्रहाद्वे नव्ये अनतिशुद्धे पुस्तके समुपलब्धे । यद्यप्यनन्तरोदितपुस्तकद्वितयाधारेण सावधानतया संशोधनमकारि तथाप्यत्र दृष्टिदोषेण वचनाशुद्धिरवशिष्टा भवेत्तत्र संशोध्य वाचनीयं धीधनैरिति प्रार्थयते— सच्चरणाजचञ्चरीकः चतुरविजयः ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72