Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 40
________________ सवृत्तिकं मण्डलप्रकरणम्। (३३) एतस्मिन् चतुर्दशगुणे कृते समस्तं चारक्षेत्रं नवाधिकपञ्चशतयोजनमितं त्रिपञ्चाशच्चैकषष्टिभागयुतं ५०९ ५३, यतः कारणादष्टभिर्भागैरधिकं सूर्यबिम्बाच्चन्द्रबिम्बं षट्पञ्चाशद्भागमानत्वात् । अत्रापि विमानाक्रान्तभूमेरगणनादष्टचत्वारिंशद्भागानामकथनेऽपि पूर्वोक्तेन सह न विरोधः ॥४८॥ अथ सर्वेषु क्षेत्रेषु दिक्चतुष्कनिर्णयस्वरूपं गाथायुगलेनाहजस्स जो आइच्चो, उदेइ सा तस्स होइ पुव्वादिसा । । जत्थ वि अ अत्थमई, अवरदिसा सा उ नायव्वा ॥ ४६॥ दाहिणपासम्मि अ दाहिणा उ वामेण उत्तरा होइ। एआओ तावदिसा, सव्वेसिं उत्तरो मेरू ॥ ५० ॥ जस्स० । यस्य लोकस्य यतः स्थानादादित्य उदयमेति-दग्गोचरमायाति तस्य लोकस्य सैव पूर्वदिग् ज्ञेया । तथा यत्र स्थाने सूर्योऽस्तमेति अदृश्यतायोगात्सा — अपरा' पश्चिमा च ज्ञातव्या ॥ ४९ ॥ दाहि । उदयमानसूर्याभिमुखसतस्तस्य लोकस्य दक्षिणपार्श्वे दक्षिणा भवति वामपार्श्वे तूत्तरा । भावना यथा-पूर्वविदेहानां लोकानां या पश्चिमा सा भरतसम्बन्धिनां पूर्वा, भरते या पश्चिमा सा पश्चिमविदेहेषु पूर्वा, पश्चिमविदेहेषु या पश्चिमा सा ऐरावते पूर्वा, ऐरावते या पश्चिमा सा पूर्वविदेहेषु पूर्वेत्यादि । सूक्ष्मेक्षिकया यौगलिकक्षेत्रवर्षधरादिषु सर्वत्र पूर्वादयो दिशो विचार्याः । यतो जम्बूद्वीपप्रज्ञप्त्याम्-"जंबुद्दीवे णं भंते! सूरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति ? १ पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति ? २ दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति? ३ पडीणउदीणमुग्गच्छ

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72