Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 59
________________ ( ५२ ) विनयकुशलविरचितं १ मघा २ द्वे नक्षत्रे, द्वितीयं नक्षत्रमण्डलम् । पष्ठे चन्द्रमण्डले एका कृत्तिका, तृतीयं नक्षत्रमण्डलमेतत् ॥ ८२ ॥ रोहि ० । सर्वाभ्यन्तरा - त्सप्तमे चन्द्रमण्डले रोहिणी १ चित्रे २ द्वे, नक्षत्रमण्डलं चतुर्थम् । सर्वाभ्यन्तरादष्टमे चन्द्रमण्डले एका विशाखा, नक्षत्रमण्डलं पञ्चमम् ५। सर्वाभ्यन्तरान्मडलात्पुनर्दशमेऽनुराधा नक्षत्रमण्डलं षष्ठम् ६ । एकादशे चन्द्रमण्डले ज्येष्ठा नक्षत्रमण्डलं सप्तमम् ७ ॥ ८३ ॥ मिग० । मृगशीर्ष १ आर्द्रा २ पुप्य ३ अश्लेषा ४ हस्त ५ मूल ६ पूर्वाषाढा ७ उत्तराषाढा ८ एतान्यष्टौ नक्षत्राणि सर्वबाह्ये पञ्चदशे चन्द्रमण्डले सन्ति, नक्षत्रमण्डलमष्टमम् ॥ ८४ ॥ अथ येषु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति तान्याह - सेसेसु मंडलेसुं, सत्सु ससिणो न हुंति रिक्खाणि । सुहवंति ताणं, अव य मंडलागि तत्र ॥ ८५ ॥ सेसे ० ० । ' शेषेषु ' द्वितीयचतुर्थपञ्चमनवमद्वादशत्रयोदशचतुर्दशसंज्ञेषु सप्तसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति । पूर्वोक्तेष्वष्टसु चन्द्रमण्डलेषु नक्षत्राणि सन्ति, 'ततः ' तस्मात्कारणात्तेषामष्टावेव मण्डलानि भवन्ति ॥ ८९ ॥ अथ नक्षत्रमण्डलानामवस्थितत्वमाह--- रिक्खाणि मंडले जागि जम्मि वृत्ताणि ताणि तत्थेव । निचं चरंति चंदाईणं भोगं तह उ चिंति ॥ ८६ ॥ रिक्खा ० । यानि नक्षत्राणि यस्मिन्मण्डले उक्तानि तानि तत्रैव ' नित्यं ' आ कालं चरन्ति तत्तन्निजं निजं मण्डलं त्यक्त्वा नान्यत्र मण्डले गच्छन्ति । चन्द्रादीनामुपभोग्यानि, आदिशब्दात्सूर्यग्रहाणां ग्रहः । अष्टाविंशतिनक्षत्राणां मध्ये द्वादश नक्षत्राणि सर्वाभ्यन्तरमण्डलस्थानि

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72