Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् । (५३) चन्द्रस्योत्तरेणोत्तरस्यां दिशि व्यवस्थितानि सदा योगं युञ्जन्ति । योगः किम् ? उच्यते, नक्षत्रसीमावर्तिना चन्द्रेण सह नक्षत्राणां संबन्धो योगः। अष्टौ नक्षत्राणि सर्वबाह्यमण्डलस्थानि चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि सदा योगं युञ्जन्ति । सर्वाभ्यन्तरसर्वबाह्ये नक्षत्रमण्डले त्यक्त्वा शेषाणि षण्मध्यमण्डलस्थान्यष्टौ नक्षत्राणि कदाचिदुत्तरयोगीनि कदाचिदक्षिणयोगीनि कदाचित्प्रमर्दयोगीन्यपि । प्रमर्दमिति कोऽर्थः ? तेषां नक्षत्राणां मध्येन भूत्वा चन्द्रो व्रजति गच्छतीति समवायाङ्गे प्रोक्तम् ॥ ८६ ॥ अथ किं नक्षत्रं कति मुहूर्तानि चन्द्रेण सह चरति ? तत्र प्रथममभिजिन्नक्षत्रमाह
अभिइस्स चंदजोगो, सत्तट्ठीखंडियो अहोरत्तो। . ते टुति नव मुहुत्ता, सत्तावीसं कलाओ अ॥८७ ॥
अभिइस्स ० । अभिजिन्नक्षत्रस्य चन्द्रेण सह योगः सप्तषष्टिभागीकृतमहोरात्रगम्यक्षेत्रं तस्यैकविंशतिर्भागाः क्षेत्रतः, कालतो नव मुहूर्ता एकस्य मुहूर्त्तस्य च सप्तविंशतिः सप्तषष्टिभागाः । तथाहि-सर्वेषामपि नक्षत्राणां सीमा विष्कम्भतः पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तारो नक्षत्रेणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टया भागैर्भाजितो विभक्तः समच्छेदः प्रज्ञप्तः । भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति, भागान्तरेण न वक्तुं शक्यत इत्यर्थः । ततो नक्षत्रणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमा विष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यते । तदनु श्रवणेन सह योगः, शीघ्रगामित्वेनाभिजितोऽग्रे गमनात् । तथास्यामेवैकविंशतौ त्रिशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72